Book Title: Sarvarth Siddhi
Author(s): Pujyapadacharya, 
Publisher: Kallappa Bharamappa Nitbe

View full book text
Previous | Next

Page 253
________________ २२३ अष्टमोऽध्यायः ॥ प्रकृतिस्थित्यनुभवप्रदेशास्तद्विधयः॥३॥ प्रकृतिः स्वभावः । निम्बस्य का प्रकृतिः? तिक्तता । गुडस्य का प्रकृतिः? मधुरता । तथा ज्ञानावरणस्य का प्रकृतिः।। अर्थानवगमः । दर्शनावरणस्य का प्रकृतिः? अर्थानालोच (क) नम् ॥ वेद्यस्य सदसल्लक्षणस्य सुखदुःखसंवेदनम् ॥ दर्शनमोहस्य तत्त्वार्थाश्रद्धानम् ॥ चारित्रमोहस्यासँयमः ॥ आयुषो भवधारणम् ॥ नामो नारकादिनामकरणम् ॥ गोत्रस्योचैनींचैः स्थानसंशब्दनम् ॥ अन्तरायस्य दानादिविघ्नकरणम् ॥ तदेवं लक्षणं कार्यम्- प्रक्रियते प्रभवत्यस्या इति प्रकृतिः । तत्स्वभावादप्रच्युतिः स्थितिः । यथा- अजागोमहिष्यादिक्षीराणां माधुर्यस्वभावादप्रच्युतिः स्थितिः। तथा ज्ञानावरणादीनामर्थानवगमादिस्वभावादप्रच्युतिः स्थितिः । तद्रसविशेषोऽनुभवः । यथा- अजागोमहिष्यादिक्षीराणां तीव्रमन्दादिभावेन रसविशेषः । तथा कर्मपुद्गलानां स्वगतसामर्थ्यविशेषोऽ नुभवः ॥ इयत्तावधारणं प्रदेशः । कर्मभावपरिणतपुद्गलस्कन्धानां ‘परमाणुपरिच्छेदेनावधारणं प्रदेशः ॥ विधिशब्दः प्रकारवचनः । त एते प्रकृत्यादयश्चत्वारस्तस्य बन्धस्य प्रकाराः ॥ तत्र योगनिमिचौ प्रकतिप्रदेशौ कषायनिमित्तौ स्थित्यनुभवौ । तत्प्रकर्षाप्रकर्षभेदात्तद्वन्धविचित्रभावः । तथा चोक्तम्- जोगा पयडि पएसा ठिदिअणुभागा कसायदो कुणदि । अपरिणदुच्छिण्णेसु य बंधठिदिकारणं णस्थि ॥१॥ तत्राद्यस्य प्रकृतिबन्धनस्य भेदप्रदर्शनार्थमाह-'. ॥ आयो ज्ञानदर्शनावरणवेदनीय मोहनीयायुर्नामगोत्रान्तरायाः ॥ ४॥ १ कर्मत्वेनापरिणतेषु निर्जीणेषु च ॥

Loading...

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310