Book Title: Sarvarth Siddhi
Author(s): Pujyapadacharya, 
Publisher: Kallappa Bharamappa Nitbe

View full book text
Previous | Next

Page 263
________________ अष्टमोऽध्यायः तिरित्यनुवर्तते ॥ इयमपि पूर्वोक्तस्यैव ॥ शेषाणामागमतोऽवसेया॥ उक्तोत्कृष्टा स्थितिः ॥ इदानीं जघन्या स्थितिर्वक्तव्या ॥ तत्र समानजघन्यस्थितीः पञ्च प्रकृतीरवस्थाप्य तिसृणां जघन्यस्थितिप्रतिपत्त्यर्थं सूत्रद्वयमुपन्यस्यते लध्वर्थम्॥ अपरा द्वादशमूहूर्ता वेदनीयस्य ॥ १८ ॥ अपरा जघन्या, वेदनीयस्य द्वादशमुहूर्ताः ॥ ॥ नामगोत्रयोरष्टौ ॥ १९॥ .... "मुहूर्ता इत्यनुवर्तते । अपरा स्थितिरिति च ॥ अवस्थापितप्रकृतिजघन्यस्थितिप्रतिपत्त्यर्थमाह- ॥ शेषाणामन्तर्मुहूर्ता ॥ २० ॥ शेषाणां. पंचानां प्रकृतीनामन्तर्मुहूर्ताऽपरा स्थितिः ॥ ज्ञानदर्शनावरणान्तरायाणां जघन्या स्थितिः सूक्ष्मसाम्पराये , मोहनीयस्य अनिवृत्तिबादरसाम्पराये। आयुषः संख्येयवर्षायुष्कतिर्यक्षु - मनुष्येषु च ॥ ___ आह--उभयी स्थितिरभिहिता ज्ञानावरणादीनामथानुभवः किं लक्षण इत्यत आह- ॥ विपाकोऽनुभवः ॥२१॥ .. विशिष्टो नानाविधो वा पाको विपाकः । पूर्वोक्तकषायतीवमन्दादिमावास्रवविशेषाद्विशिष्टः पाको विपाकः ॥ अथवा द्रव्यक्षेत्रकालभवभावलक्षणनिमित्तभेदजनितवैश्वरूप्यो (वैस्वरूपो) नानाविधः पाको विपाकः । असावनुभव इत्याख्यायते ॥ शुभपरिणामानां प्रकर्षभावाच्छुभप्रकृतीनां प्रकृष्टोऽनुभवः । अशुभप्रकृतीनां निकृष्टः ॥ अशुभपरिणामानां प्रकर्षभावादशुभप्रकृतीनां प्रकृष्टोऽ

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310