Book Title: Sarvarth Siddhi
Author(s): Pujyapadacharya, 
Publisher: Kallappa Bharamappa Nitbe

View full book text
Previous | Next

Page 302
________________ २७२ सर्वार्थसिद्धिः करणक्षपकगुणस्थानव्यपदेशमनुभूय तत्राभिनवशुभाभिसन्धिलनकत. पापप्रकृतिस्थित्यनुभागो विवर्धितशुभकर्मानुभवोऽनिवृत्तिकरणप्राप्स्यानिवृत्तिनादरसाम्परायक्षपकगुणस्थानमधिरुह्य तत्र कषायाष्टकं नष्टं कृत्वा नपुंसकं वेदनाशं समापाद्य स्त्रीवेदमुन्मूल्य नोकषायषट्कं पुंवेदे प्रक्षिप्य क्षपयित्वा पुंवेदं क्रोबसंज्वलने क्रोधसञ्ज्वलनं मानसंज्वलने मानसंज्वलनं मायासंज्वलने मायासंज्वलनं लोभसंज्वलने क्रमेण बादरकृष्टिविभागेन विलयमुपनीय लोभसंज्वलनं तनूकृत्य सूक्ष्मसाम्परायक्षपकत्वमनुभूय निरवशेष मोहनीयं निमूलकाषं कषित्वा क्षीणकषायतामधिरुह्यावतारितमोहनीयभार उपान्त्यप्रथमे समये निद्राप्रचले प्रलयमुपनीय पञ्चानां ज्ञानावरणानां चतुणी दर्शनावरणानां पञ्चानामन्तरायाणामन्तमन्ते समुपगमय्य तदनन्तरं ज्ञानदर्शनस्वभाव केवलपर्यायमप्रतविभूतिविशेषमवाप्नोति ॥ ___ आह कस्माद्धेतोमोक्षः किंलक्षणश्चेत्यत्रोच्यते-- ॥ बन्धहेत्वभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षो मोक्षः ॥२॥ मिथ्यादर्शनादिहेत्वभावादभिनवकर्माभावः पूर्वोदितनिर्जराहेतुसन्निधाने चार्जितकर्मनिरासः । ताभ्यां बन्धहेत्वभावनिर्जराभ्यामिति हेतुलक्षणविभाक्तिनिर्देशः । ततो भवस्थितिहेतुसमीकृतशेषकर्मावस्थितस्य युगपदात्यन्तीकृतकृत्स्नकर्मविप्रमोक्षो मोक्षः प्रत्येतव्यः । कमा-वो द्विविधः- यत्नसाध्योऽयत्नसाध्यश्चेति ।। तत्र चरमदेहाय नारकर्तिर्यग्देवायुषामभावो न यत्नसाध्यः असत्वात ॥ यत्नसा य इत ऊर्ध्वमुच्यते - संयतसम्यग्दृष्टयादिषु चतुर्पु गुणस्थानेषु कमिश्चित्सप्तप्रकृतिप्रक्षयः क्रियते ॥ १ कष् हिंसायामिति धातुरयं त्वाप्रत्ययान्तः ॥

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310