Book Title: Sarvarth Siddhi
Author(s): Pujyapadacharya, 
Publisher: Kallappa Bharamappa Nitbe

View full book text
Previous | Next

Page 299
________________ नवमोऽध्यायः २६९ नैन्थ्य पतिस्थिता अखण्डितव्रताः शरीरोपकरणविभूषानुवर्तिनोs विविक्तपरिवारा मोहशवलयुक्ता बकुशाः । शबलपर्यायवाची बकुशशब्दः ॥ कुशीला द्विविधाः । प्रतिसेवनाकुशीलाः कषायकु. शीला' इति ॥ अविविक्तपरिग्रहाः परि[भयाः कथञ्चिदुत्त. रगुणविरोधिनः प्रतिसेवनाकुशीलाः। वर्श कृतान्यकषायोदयाः सम्ज्वलनमात्रतन्त्राः कषायकुशीलाः ॥ उदकदण्डराजिवदनमिव्यतोदयकर्माण ऊर्ध्वं मुहूर्तादुद्भिद्यमानकेवलज्ञानदर्शनमाजो निग्रन्थाः ॥ प्रक्षीणघातिकर्मणः केवलिने द्विविधाः स्नातकाः ॥ त एते पञ्चापि निम्र थाः ॥ चारित्रपारणामस्य प्रकषाप्रकर्षभेदे सस्यपि नैगमसंग्रहादिनयापेक्षया सर्वेऽपि ते निम्रन्था इ युच्यन्ते। तेषां पुलाकादीनां भूयोऽपि विशेषप्रतिपत्त्यर्थमःह॥ सँयमश्रुतप्रतिसेवनातीर्थलिङ्गलेश्योपपाद स्थानविकल्पतः साध्याः ॥ ४७ ॥ ___ त एते पुलाकादयः संयमादिभिरष्टभिनुयोगैः साध्या व्याख्येयाः ॥ तद्यथा-पुलाकबकुशप्रतिसेवनाकुशीला द्वयोः संयमयोः सामायिकच्छेदोपस्थापनयोर्वर्तन्ते । कषायकुशीला द्वयोः संयमयोः परिहारविशुद्धिसूक्ष्मसाम्पराययो. पूर्वयोश्च । निम्रन्थस्नातका एकस्मिन्नेव यथाख्यातसँयमे सन्ति ॥ श्रुतं-- पुलाकबकुशप्रतिसेवनाकुशीला उत्कर्षेणाभिन्नाक्षरदशपूर्वधराः । कषायकुशीला निर्मन्याश्चतुर्दशपूर्वधराः । जघन्येन पुलाकस्य श्रुतमाचारवस्तु । बकुशकुशीलनिर्ग्रन्थानां श्रुतमष्टौ प्रवचनमातरः । स्नातका अपगतश्रुताः केवलिनः ॥ प्रतिसेवना- पञ्चानां मूलगुणानां रात्रिभोजनवर्जनस्य - १ अविविक्तपरिवारानुमोदच्छेदशवलयुक्ता इत्यपि पाठान्तरम् ॥ २ पंचसमितयस्तिस्रो गुप्तयश्चत्यष्टौ प्रवचनमातरः कथ्यन्ते ॥

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310