Book Title: Jinendra Stotram
Author(s): Rajsundarvijay
Publisher: Shrutgyan Sanskar Pith

View full book text
Previous | Next

Page 282
________________ मूकाऽलसमूर्खमुग्धरोगेषु - [२८] इत्यजिरादि-एकाक्षरीनाममालाऽज्ञातविहिता, ढ एव ढ इति ढढः, न विद्यते ढढो यस्य स अढढः = रागरोगरहित: निष्कषायत्वात् । अढढीढञ्चासावढढश्चेति अढढीढा-उढढः = द्वेषदहनदक-रागरोगरहित:, तस्य सम्बोधने, विशेषणाभ्यामाभ्यामर्हतो रागद्वेषविरहितत्वम् व्याख्यातम् । पुन: कीदृश ! ? ढोढ ! - ढौः = वर्य: ‘ढो'शब्दस्यायं प्रयोग: → ढो: सुखी वर्य: [५४] इत्येकाक्षरनाममाला सौभरिकृता, ढः = स्वभाव: → ढ: स्वभावे . [५७] इत्येकाक्षरनाममालिका विश्वशम्भुग्रथिता, ढौझै यस्य स ढोढः = वर्यस्वभाव: प्रतिकूलत्वविरहाद्, तस्य सम्बोधने । पुनः कीदृश ! ? ढ ! • ढः = सौम्य: → ढ: .... त्रिषु स्याद् गूढसौम्ययो: - [४१/४२] इत्येकाक्षरकाण्ड: कविराघवग्रथितः, चन्द्रमोवदाननत्वात्, तस्य सम्बोधने । पुन: कीदृश !? अढ ! - ढः = भयम् → ढः पिशाचे भये - [३५] इत्येकाक्षरकाण्ड इरुगपदण्डाधिनाथगुम्फित:, नास्ति ढो यस्माद्यस्य वा स अढ: = अभयप्रदो निर्भयो वा करुणाकरत्वात्सुबलत्वाच्च, तस्य सम्बोधने । अथ कीदृशस्त्वम् ? ढैढढः - डैः = मार: → डैार: 6 [५४] इत्येकाक्षरनाममाला सौभरिभणिता, ढः = पिशाच: → ढ: शब्दस्तु पिशाचे 6 [२८] इति पूर्वोक्ताजिरादि-एकाक्षरीनाममालोक्तेः, ढ: = भयम् → ढ: पिशाचे भये 6 [४१] इति पूर्वोक्तकविराघववचनाद्, ढेरेव ढ इति द्वैढस्तस्य स्याद् ढो यस्माद् स ढेढढः = मारपिशाचभयदः । पुन: कीदृश: ? ढीढा-5ढः । ढीढम् • ढी: = ना मनुष्य इत्यर्थः → ढीर्ना - [५५] इत्येकाक्षरनाममालिका विश्वशम्भुप्रोक्ता, ढम् = वरम् → ढं पयो वरम् + [५४] इति पूर्वोक्तसौभरिवचनाद्, ढीषु ढमिति ढीढम् = मनुष्यश्रेष्ठः सर्वगुणैरलङ्कतत्वात् । अढ: " ढः = आयुध: → आयुधे ढः स्याद् - [५६] इत्येकाक्षरनाममालिका विश्वशम्भुप्ररूपिता, न विद्यन्ते ढा यस्य स अढः = अनायुधः त्यक्त[ढ:] अर्हत्स्तुतिः ६७

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318