Book Title: Jinendra Stotram
Author(s): Rajsundarvijay
Publisher: Shrutgyan Sanskar Pith

View full book text
Previous | Next

Page 294
________________ परमानन्दनन्दनग्रथितः, कु = अल्पम् कु = पापम् → कुः स्त्री भुवि कु पापेऽल्पे 6 [१९] इत्येकाक्षरकाण्ड इरुगपदण्डाधिनाथग्रथित: कु कु यस्य स कुकुः = अल्पपापी, कु = पापम् पूर्वोक्तेः, कुः = निवारणम् → कुर्भू कुत्सितशब्देषु पापीयसि निवारणे 6 [१०] इत्येकाक्षरनाममाला सुधाकलशमुनिगुम्फिता, कुश्च कुकुश्चेति कुकुकू = पापीयोऽल्पपापौ, कौ कुकुकू इति कुकुकुकू, तयोः कु = पापम् इति कुकुकुकुकु, तस्य कुः = निवारणम् स्याद् यस्मात् स कुकुकुकुकुकुः = पृथ्वीपापीयोऽल्प-पापपापनिवारकः, तम् । पुन: कीदृशम् ? कुम् - कुम् = नम्रः → कुं प्रश्नेऽपि रुषोक्तौ च प्राध्वं नम्र-6 [३] इत्येकाक्षरीनाममाला महेश्वरभणिता, अव्ययमिदं निरभिमानित्वाद्, तम् । __पुनः कीदृशम् ? कुकुकुम् - कुः = उपसर्ग: → कुशब्दस्तूपसर्गे स्याद् - [२८] इत्येकाक्षरशब्दमालाडमात्यमाधवप्रोक्ता, कुः = पीडा → कुत्सिते च पीडायाम् . [४१] इत्येकाक्षरीनाममाला कालिदासव्यासप्ररूपिता, कुः = निवारणम् → कुर्धात्र्यां कुत्सिते शब्दे पापीयसि निवारणे - [३७] इत्येकाक्षरीनाममाला कालिदासव्यासप्रणीता, को: कुरिति कुकुस्तस्य कुर्यस्मात् स कुकुकुः = उपसर्गपीडा- निवारक: परमदयालुत्वात्, तम् । पुनः कीदृशम् ? कुकुम् - कुः = मही पृथ्वीत्यर्थः → कुर्वसुमती मही + [९३६] इत्यभिधानचिन्तामणि: श्रीहेमचन्द्राचार्यरचितः, कुः = हार: → कुशब्दस्तूपसर्गे .....हारे 6 [२८/२९] इत्येकाक्षरशब्दमालाऽमात्यमाधवनिर्मिता, को: कुरिव य: स कुकुः = महीहार: सर्वगुणसंपन्नत्वादर्हताऽवन्यप्यलङ्कृतेत्यर्थः, तम् । ___पुन: कीदृशम् ? कुकुम् - कु = पापम् → कु पापे - [२] इत्येकाक्षरीनाममाला महेश्वरकविविहिता, कुः = विसहित: रहित इत्यर्थः → कुशब्दस्तूप-सर्गे स्यादुर्व्या विसहितेऽपि च * [२८] इत्येकाक्षरशब्दमालाउमात्यमाधवविहिता, कु = पापम् तस्माद् कुः = रहित: इति कुकु: पापरहित: पापशून्य इत्यर्थः, तम् । पुन: कीदृशम् ? कुकुम् - कु = ईषदर्थे अल्प इत्यर्थः → कु निन्दायामी[कु:] अर्हत्स्तुति: ७९

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318