Book Title: Jinendra Stotram
Author(s): Rajsundarvijay
Publisher: Shrutgyan Sanskar Pith
View full book text
________________
जपे (जये) योग्ये दुष्टे - [५८] इत्येकाक्षरनाममालिका विश्वशम्भुकृता, णानां णो यस्य स णण: = दुष्टजय: बाह्याभ्यन्तरसर्वरिपूणां जेतेत्याशय: अचिन्त्यबलवत्त्वात्, तम् ।
पुन: कीदृशम् ? णुणा-ऽणीणणम् ।
णुण: णुः = भू: पृथ्वीत्यर्थ: → णु: करेणुर्भूः - [५५] इत्येकाक्षरनाममालिका सौभरिग्रथिता, ण: = भूषण: → ण: पुमान् बिन्दुदेवे स्याद् भूषणे 6 [१२] इति मेदिनीकोशो मेदिनीकरग्रथितः, णोर्ण इति गुण: = भूभूषण: तदलङ्कारायमाणत्वात् ।
अणीणण: + णी: = क्षीणम् → क्षीरे (क्षीणे) रणे धने धान्ये णी: 6 [५९] इत्येकाक्षरनाममालिका विश्वशम्भुगुम्फिता, णम् = ज्ञानम् → णं सरोजदले ज्ञाने - [४३] इत्येकाक्षरकाण्ड: कविराघवभणित:, णम् = दर्शनम् → णं दर्शनमिति स्मृतम् - [५६] इत्येकाक्षरनाममाला सौभरिप्रोक्ता, न णीरित्यणीरक्षीणमित्यर्थः, णञ्च णञ्चेति णणे, अणियौ णणे यस्य स अणीणण: = अक्षीणज्ञानदर्शन: ज्ञानावरणीयदर्शनावरणीयकर्मशून्यत्वात् ।। __णुणश्चासावणीणणश्चेति णुणा-णीणण: = भूभूषणा-ऽक्षीणज्ञानदर्शन:, तम् ।
पुन: कीदृशम् ? णणाणणणम् + णः = निःश्रेयस: मोक्ष इत्यर्थः → णस्तु निःश्रेयसे 6 [२१] इत्येकाक्षरीयप्रथमकाण्ड: परमानन्दनन्दनप्ररूपित:, णम् = ज्ञानम् → णं संशोध्यजले ज्ञाने - [६२] इत्येकाक्षरशब्दमालाउमात्यमाधवप्रणीता, णस्य णं यस्य स णण: = निर्वाणज्ञान:, न णण इत्यणण: अनिर्वाणज्ञान इत्यर्थः, णणश्चाणणश्चेति णणाणणौ = मोक्षज्ञानाइमोक्षज्ञानौ, ज्ञान्येकोऽज्ञान्यपर इति द्वयोर्भेदः, अथवास्तिकनास्तिकावित्यप्यर्थः, तयोः = उभयोरुपरि णा = कृपा → णा स्त्रियां ध्वजिनीशय्याधेनुनासाकृपासु च 6 [४३] इत्येकाक्षरकाण्ड: कविराघवनिर्मित:, यस्य स णणाणणण: = निर्वाणज्ञानाऽनिर्वाणज्ञानकृप: समदर्शित्वान्निष्पक्षत्वाच्च, तम् ।
पुन: कीदृशम् ? णणा-ऽणूम् ।
णण: ७ णम् = सरोजदलम् → णं सरोजदले - [३७] इत्येकाक्षरकाण्ड [ण:] अर्हत्स्तुति:

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318