SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ ३० ] काय स्थितिप्रकरणम् [ पद्मलेश्यादीनामुत्कृष्ट कायस्थितिः णिरयणवूणा, उज्जोय चउनरयबार विणु सुक्का । विणु नरयबार पम्हा अजिणाहारा इमा मिच्छे ||" इति । तदेवं सहस्रारकन्पदेवानां तिर्यगायुर्वन्धोपलम्भात् तेषां पद्मलेश्या संभाव्यते, अन्यथा शुक्ललेश्यायां तिर्यगायुर्बन्धः कथं स्यात् । न चैतत्स्वमनीषिकया मतान्तरं संभावितम्, श्रीमद्-जयसोमसुरोश्वरैर्बन्धस्वामित्वस्तव के - ऽर्थतः संभावितत्वाद् । सहस्रारदेवानाञ्श्चोत्कृष्टस्थितिरटादश सागरोपमाणि सुप्रतीता । तेन पूर्वोत्तरभवगता - ऽन्तर्मुहूर्तद्वयेनाऽधिकान्यष्टादश सागरोपमाणि पद्मलेश्याया उत्कृष्ट काय स्थितिरेकाजीवाश्रया मतान्तरेण संभवति, सम्यग्दृष्टीनां भाविभवाऽतीतभवोर्लेश्याया अन्तर्मुहूर्तं यावत् सद्भावे विरोधाभावात् । ग्रन्थे त्वन्तमुहूर्तद्वयेनाधिकानि नोक्तानि, स्वल्पत्वात् । 'भविस्स' इत्यादि 'भव्यस्य' भव्यमार्गणाया ' अनादिसान्ता' अनादिसपर्यवसिता एकजीवाश्रया काय स्थितिर्भवति, अनादिकालतो हि भव्यत्वस्य प्रवृत्तत्वाद् भव्यमार्गणाया: कायस्थितेरनादिता, सिद्धिं यियासोरयोगिकेवलिगुणस्थानके भव्यत्वस्य निवर्तिष्यमाणत्वात् सान्तता । 'अभवस्स' इत्यादि, 'अभव्यस्य' अभव्यमार्गणायाः 'अनाद्यनन्ता' अनाद्यपर्यवसानैकजीवाश्रयोत्कृष्टा कायस्थितिरिति गम्यते, अनादिकालादभव्यत्वस्य प्रवृत्तत्वात् सिद्धिगमनायोग्यत्वेन व्यवच्छेदाभावात् उक्तं च श्रीप्रज्ञापनासूत्रे - "भवसिद्धिए णं पुच्छा, गो० अणादीए सपज्जवि अभवसिद्धिए णं पुच्छा, गो० ! अणादीए अपज्जवसिते ।" इति ॥ १९ ॥ , अथा- ऽवशिष्टयोः सास्वादनमार्गणा-ऽऽहारकमार्गणयोरेकजीवाश्रयामुत्कृष्टकाय स्थितिं वक्तु कामः प्राह सासाणस्सावलिआ छ भवे आहारगस्स णायव्वा । अंगुल असंखभागो त्ति पडुच्चा बंधगं उत्ता ॥२०॥ 1 (प्रे०) 'सासा०' इत्यादि, ‘सास्वादनस्य' सास्वादन मार्गणायाः षडावलिका एकजीवाश्र - योत्कृष्टकायस्थितिः ‘भवेत्, स्यात् । औपशमिकसम्यक्त्वतः पतितः सास्वादनभावं गत उत्कृष्टत आवलिकाषट्कं यावत्सास्वादनभावं भजते, परतो ऽवश्यं मिथ्यात्वं गच्छति, उक्तं च श्रीजीवसमासप्रकरणे -“सासायणेगुजीविय एकसमयाइ जाव छावलिया xxxx ॥ | १ ||" इति । ‘आहारगस्स’ इत्यादि, ‘आहारकस्य' आहारकमार्गणाया 'अङ्गुला : Sसंख्य भागः ' अगुलक्षेत्रस्यासंख्येमागे ये आकाशप्रदेशा भवन्ति तेषां प्रतिसमय मे कैकप्रदेशाऽपहारे यावत्यो- 5संख्येयोत्सर्पिण्यवसर्पिण्यो गच्छन्ति, तावतीर्यावदुत्कृष्टत अविग्रहगत्या जीव उत्पद्यते, परतो द्वयादिविग्रहगत्या समुत्पद्यते, तत्र चानाहारकत्वाद् आहारकमार्गणाया यथोक्तप्रमाणा एकजीवाश्रितोकृष्टा काय स्थितिः, उक्तं च श्रीप्रज्ञापनासूत्रे - "छउमत्थभद्दारए णं भंते ! छउमत्थाहार त्ति फाल० ? गो० ! xxxxx उक्को० असंखेज्जं कालं असंखेज्जाओ उस्सपिणीओसलिणीतो कालतो,
SR No.022270
Book TitleKaysthiti Prakaranam
Original Sutra AuthorN/A
AuthorVeershekharvijay, Gunratnavijay
PublisherBharatiya Prachya Tattva Samiti
Publication Year
Total Pages60
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy