Book Title: Haribhadracharyasya Samay Nirnay Author(s): Unknown Publisher: ZZZ Unknown View full book textPage 3
________________ समयनिर्णयः । मूहं यथावन्निरीक्ष्य, तत्र प्राप्यमाणान्यान्तरप्रमाणान्याश्रित्य, अन्यान्यपि शक्यलाभानि बाह्यप्रमाणानि यथायथं विचार्य च प्रस्तुतप्रश्नं समाधातुं वयमद्य प्रवृत्ताः स्मः । हरिभद्राचार्येण अनेकशतसंख्याकाः ग्रन्था ग्रथिताः सन्ति, इति भावनिरूपका भूयांसो लेखा नैकप्राचीनावाचीन जैन ग्रन्थेषु लभ्यन्ते । साम्प्रतमपि जैनवाङ्मये प्रायस्तत्कृतः शतसंख्यापरिमितो ग्रन्थराशिः समुपलभ्यते, श्रूयते वा । विद्यमाने विशालग्रन्थराशौ ये प्रसिद्धतराः, प्रौढाः, महत्त्व भृतश्च अन्या अवश्यद्रष्टव्यास्तेषां नामान्यत्र निर्दिश्यन्ते । १ × आवश्यक सूत्र हद्वृत्तिः २ × दशवैकालिक वृहद्वृत्तिः ३ अनुयोगद्वार सूत्रलघुवृत्तिः नन्दिपुत्रलघुवृत्तिः प्रज्ञापना सूत्रपदेशव्याख्या ६ × ललितविस्तरानामचै० सू० वृत्तिः १६ × षड्दर्शनसमुच्चयः १७ × सटीकः शास्त्रवार्तासमुच्चयः ४ ५ १८ x सटीका अनेकान्तजयपताका १९ x अनेकान्तवादप्रवेशः ७ × अष्टकप्रकरणम् २० x लोकतत्त्वनिर्णयः ८ x षोडशकप्रकरणम् ९ x पञ्चाशकप्रकरणम् १० २१ दिग्नागकृतन्यायप्रवेशटीका २२ × धर्मसंग्रहणीप्रकरणम् २३ उपदेशपदप्रकरणम् सटीकं पञ्चवस्तुप्रकरणम् ११ × पञ्चसूत्रप्रकरणटीका १२ x श्रावकज्ञतिः २४ × सम्बोधप्रकरणम् २५ x सम्बोधसप्ततिप्रकरणम् २६ x समराइच्चकहा १३ x धर्म बिन्दुः भारतीथैरपरापरैः पुरातनैः प्रसिद्धैर्विद्वद्भिरिव हरिभद्रेणापि स्वकृते क्वापि ग्रन्थे न कोऽपि स्वसमयः दिसूचक उल्लेखः कृतः । केवलं क्वचित् क्वचित् तत्कृतग्रन्थावसाने याः काश्चन पुष्पिका लभ्यन्ते, तासामवलोकनेन वयमेतावन्मात्रं ज्ञातुं शक्नुमो यत्-तस्य सम्प्रदायः श्वेताम्बरः, गच्छो विद्याधरः, गच्छप्रतिराचार्यो जिनभटः, दीक्षागुरुजिंनदत्तसूरिः सदुपदेशदायिनी धर्मजननी चार्या याकिनीमहत्तरा आसीत् । एतत्समग्रकथन सूचनं निम्नोद्धृताय | म | वश्यक सूत्रबृहद्वृत्तिपुष्पिकायामुपलभ्यते । यथा'समाप्ता चेयं शिष्यहिता नामावश्यकटीका । कृतिः सिताम्बराचार्य जिनभटनिगदानुसारिणो विद्याधरकुलतिलकाचार्य जिनदत्त शिष्यस्य धर्मतो याकिनी महत्तरा सुनारल्पमतेराचार्यहरिभद्रस्य । 46 " Shree Sudharmaswami Gyanbhandar-Umara, Surat १४ x योगबिन्दुः १५ x योगदृष्टिसमुच्चयः ८ बहुषु प्राचीनार्वाचीनेषु ग्रन्थेषु लिखितमुपलभ्यते यत् हरिभद्रसूरिणा चतुर्दशशतसंख्याकाः चत्त्वारिंशदधिकचतुर्दशशतसङ्ख्याकाः, चतुश्चत्वारिंशदधिकचतुर्दशशत सङ्ख्याका वा ग्रन्था ग्रथिता:, इति । प्रमाणानि च द्रष्टव्यानि पं० हरगोविन्ददासविरचित 'हरिभद्रसूरिचरित्र ' निबन्धे ( पृ० १७-२० ) ९ ग्रन्थावली ( पृ० ९८-१०२ ); पं० हरगोविंद - हरिभद्रसूरि चरित्रम् ( पृ० २०-३० ) x एतच्चाङ्किता ग्रन्था मुद्रिताः सन्ति । 3 www.umaragyanbhandar.comPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24