Book Title: Haribhadracharyasya Samay Nirnay
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 17
________________ सनवनिर्नवः। तभृङ्गाररसपरिप्लुत-कुवलयमालाकथाकृद् दाक्षिण्यचिनसूरिय-एतौ द्वौ गुरु-शिष्यो निस्सन्दों समसमयवर्तिनावेव इति निर्णयः । तादृश 'बहुग्रन्थसार्थ ' रचनाकारिणः, परोपकारचिकीर्षया सर्वनाऽप्रतिबद्धविहारिणो विदुष बायुः षष्टिः, सप्ततिर्वा वर्षाणि-अवश्यं भवेत् , इति सम्भावनया तस्य महापुरुषस्य जीवनकालं वयं सप्तशतीतमात् वृष्टान्दादारभ्य सप्तत्यधिकसप्तशतीतम ( अङ्कतः ७००-७७०) पर्यन्तम् , अथवा सप्तपञ्चाशदधिकसप्तशतीतमाद् विक्रमान्दादारभ्य सप्तविंशत्यधिकाष्टशतीतम (अङ्कतः ७५७-८२७) पर्यन्तम् , स्थिरीकर्मः । इति शमस्तु श्रमणसङ्घाय । परिशिष्टम् । हरिभद्रः-शान्तरक्षितश्च । माचार्यहरिभद्रेण ' शास्त्रवार्तासमुच्चय ' नामके अन्ये क्षणिकवादविचारमीमांसाया पूर्व न्यायपादिनो धर्मकीतर्मतमालोच्य, तदनन्तरं निम्नलिखितेन श्लोकेन सूक्ष्मबुद्धेः शान्तरक्षितस्याऽपि पत" स्यालोचना आरब्धा । यया ___ एतेनैतत्प्रतिक्षिप्तं यदुक्तं सूक्ष्मबुद्धिना। " नाऽसतो भावकर्तृत्वं तदवस्थान्तरं न सः ॥" 'अस्य श्लोकस्य स्वोपजन्याख्यायां ' सूक्ष्मबुद्धिना' इत्यस्य पदस्य 'कुशाग्रधिया-बान्तरक्षितेन ' इत्येवंरूपां व्याख्यां कृत्वा स्पष्टरूपेण शान्तरक्षितस्य साक्षानिर्देशः कृतः । __अथाऽत्रायं प्रश्नः समुत्पद्यते-कोऽसौ शान्तरक्षितः ? कदा च सञ्जातः १ इति । एतत्पश्नपर्यालोचने कृते सति-इदं ज्ञायते-म०म० सतीशचन्द्रविद्याभूषणेन स्वीये 'मध्यकालीनभारतीपन्यायशास्त्रेतिहास' नामक पुस्तके यस्यैकस्य बौद्धनैयायिकस्य शान्तरक्षितस्य वर्णनं लिखितमस्ति, स एवायं हरिभद्रस्मृतः शान्तरक्षितः, इति सम्भाव्यते । तस्य शान्तरक्षितस्य सत्तासमयो विद्याभूषणमहाशयेन स्व० ७४९ निकटवर्ती स्थिरीकृतः । तेन हि 'वादन्यायवृत्ति-विपश्चितार्थः । इति, 'तत्त्वसङ्ग्रहकारिका' इति चैतन्नामानौ द्वौ ग्रन्यो विरचितौ स्तः। तत्र, द्वितीयस्य ग्रन्थस तु ४८ शाखवार्तासमुच्चयः (दे० डा० जैनपु० के० पु. १४.) ४९ १० १२४ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24