Book Title: Haribhadracharyasya Samay Nirnay
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 12
________________ हरिभद्राचार्यस्पब्राह्मणाः बौद्धा:-.. जैना:अवधूताचार्यः। कुक्काचार्यः। भाजितयशाः। भासुरिः। दिवाकरः (१)। समास्वातिः। ईचरकृष्णः । दिग्नागाचार्यः। जिनभद्रक्षमाश्रमणः। कुमारिलः। धर्मपालः। देववाचकः। पतञ्जलिर्भाष्यकारः । धर्मकीर्तिः । भद्रबाहुः । पतञ्जलिर्योगाचार्यः। धर्मोत्तरः। मल्लबादी। पाणिनिर्वैयाकरणः । भदन्तः। समन्तभद्रः। भगवद्गोपेन्द्रः । भदन्तदिन्नः । सिद्धसेनदिवाकरः । भर्तृहरिर्वैयाकरणः । वसुबन्धुः। विन्ध्यवासी। शान्तिरक्षितः । शिवधर्मोत्सरः। शुभगुप्तः । (१) अस्यां नामावल्यां वैयाकरणभर्तृहरेरपि निर्देशो दृश्यते । अस्य हि महावैयाकरणस्य नामधेर्य हारेभद्रेण · अनेकान्तजयपताकायां' द्वित्रेषु स्थलेषु स्मृतम् , उद्धृतानि च ' वाक्यपदोय 'नामकात् प्रसिद्धात् तदीयग्रन्थात् कानिचित् पद्यानि । तथा हि(1) औह च शब्दार्थतत्त्वविद् [ भर्तृहरिः-टीका ] __“ वायूपता चेदुत्क्रामेदवबोधस्य शाश्वती । न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ॥ न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्वं शब्देन जायते ॥” इति' (2) उक्तं च भर्तृहरिणा-" यथानुवाकः श्लोको वा ।" इति ३८ वृष्टीयसप्तमशताब्द्युत्तरभागे भारतभ्रमणकारिणः 'इत्सिंग' नामधेयस्य चीनदेशवास्तव्यस्य विदुषः कथनानुसारेण, अध्यापक-काशीनाथ-बापू-पाठकमहाशयन स्वलिखिते ' भर्तृहरिः-कुमारिलश्च ' इत्येतनामके आंग्लभाषानिबद्धे निबन्धे," भर्तृहरेर्मृत्युसमयः पश्चाशदधिकषट्शतीतमे (६५०) खुष्टाब्दे ( ६९३-४ विक्रमाब्दे ) सप्रमाणं स्थिरीकृतः । तलैव निबन्धे पुनः, भर्तृहरिकृत-वाक्यपदीय-गतविचाराणां तन्त्रवार्तिकनाम्नि प्रसिद्ध ग्रन्थ अनेकशः खण्डितत्वात् तत्कर्तुमहामीमांसकस्य कुमारिलस्यापि सप्तशती (७००) तमवृष्टाब्दनिकटे विद्यमानत्वं निर्णीतम् ।। इतश्च-हरिभद्रेण स्वकृत ' शास्त्रवार्तासमुच्चय' नामकग्रन्थस्य चतुर्थस्तबकगतस्य३७ अनेकान्तजयपताका ( अहमदावादे मुविता ) पृ० ४१; काश्यां मुद्रिते वाक्यपदीये पृ० ४६-७ उपरि द्रष्टव्यम् । ३८ बाक्यपदीये सम्पूर्णः श्लोक पतादृशः" यथानुवाकः श्लोको वा सोढत्वमुपगच्छति । आवृत्या, न तु स ग्रन्थः प्रत्यावृत्त्या निरूप्यते ॥ ८॥" ३९ ज० रो०५० सी० बो. ब्रे. पु०१८, पृ. २१३-२३८. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24