Book Title: Haribhadracharyasya Samay Nirnay
Author(s): Unknown
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 23
________________ समयनिर्णयः । २६ राचार्यः खलु वृष्टाब्दात् शतशो वर्षाणि पूर्ववर्ती, कस्यचिन्मतेन वृष्टीयपञ्चमशताब्दीवर्ती, केषांचिन्तेन च षष्ठ- सप्तमाऽष्टमादिशताब्दीवर्ती वा इति । अस्मन्मतेन पुनः स हि - अद्वितीयोऽद्वैतवादी महात्मा हरिभद्रात्वर्वाचीन एव, न प्राचीनः; हरिभद्रेण स्वग्रन्थे क्वापि तत्सूचनस्याकृतत्वात् । हरिभद्रयग्रन्थानां विलोकने स्पष्टमेव ज्ञायते, यत् - तेन सूरिणा स्वपूर्ववर्तिनां प्रायेण सर्वेषां प्रसितरज्ञानां मतानि मीमांसितानि, नामस्मरणानि च कृतानि । यदि शङ्कराचार्यसदृशो हि महान् तत्रज्ञः स्वस्मात् पूर्ववर्ती, जातो भवेत्, तर्हि तस्यापि नामस्मरणम्, मतमीमांसनं वा हरिभद्रेणावश्यं कृतं भवेत् । शङ्कराचार्यस्य मतमीमांसने तु हरिभद्रस्य विशिष्टः प्रसङ्गोऽपि प्राप्त आसीत् । यतः -- शङ्कराचार्येग हि स्वकीयशारीरिकभाष्ये द्वितीयाध्यायग नद्वितीयपादीय' नैकस्मिन्नसम्भवात् ' इत्यादि ( २, २, ३३–३६ ) सूत्रव्याख्यावसरे जैनदर्शनमूलभूत - ' अनेकान्तवाद ' ( स्याद्वाद ) सिद्धान्तस्य उपरि नै के सदाक्षेपाः कृताः सन्ति । हारेभद्रेग पुनः -- ' अनेकान्तजयपताका ' ग्रन्थः समग्रप्रतिपक्षिदाशीने ककृताने कान्तवादविषय कदोषारोपणदूरीकरणाय, स्वसिद्वान्तस्थापनायैव च वि , तोऽस्ति । तथा सति यदि शङ्कराचार्यो हरिभद्रात् पूर्ववर्ती तदा कथं न शङ्करकृताने कान्तवादविडम्बनं हरिभद्रेण प्रतिविडम्बितं दृश्येत ? इति । तथैव, हरिभद्रेग स्त्रीयेषु ग्रन्थेषु नैकेषु स्थलेषु समुचितरूपेण ब्रह्माद्वैमनस्य यथाभिमतं मीमांसा कृता वरीवृत्य, तत्रापि न कुत्रचित् शङ्कराचार्य - विचाराणामनुसरणम् आलोचनम्, विवेचनं वा कृतमुपलभ्यते । अतो ज्ञायते हरिभद्रादर्वाचीन एव शङ्कराचार्यः । एवं च सति, प्रसिद्धदेशभक्त लोकमान्येन सुगृहीतनामयेयेन तिलकोपनाम्ना बालगङ्गाधरेण स्वकृत 'कर्मयोगशास्त्रापरनाम ' ' गीतारहस्य' ग्रन्ये शहराचार्यस्य विद्यमानत्वं ६८८-७२० वृष्टाब्दे यदनुमितं तन सम्यगव भासते, किन्तु, अध्यापककाशीनाथपाठक महारान वृष्टाब्द ७८८-८२० यात्रद् यः समयः स्थिरीकृतः स एव अस्माकं सयुक्तिकः, सुनिश्चितः प्रतिभाति । इत्यलं प्रसङ्गेन । Eo ६० ' जर्नल बो० ० ० ए० सो० पुस्तक १० पृ० ८८ ९६ इत्यादि । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 21 22 23 24