Book Title: Apbhramsa Pathavali
Author(s): Madhusudan Chimanlal Modi
Publisher: Gujarat Varnacular Society

View full book text
Previous | Next

Page 10
________________ निवेदनम्। सर्वमिदं नामरूपात्मकं जगत्प्रायो पाचायाः प्रभावेण समुः योतितं भवति । तस्मादेव वाचाया महिमा श्रुतिभिरपि गीयते । तथा ह्येतरेयाण्यके "वाचा वै वेदाः संधीयन्ते, वाचा छंदांसि वाचा मित्राणि संदधति वाचा सर्वाणि भूतान्यथो वागेवेदं सर्व" मिति' । संसारव्यवहारायावश्यकं जनानां पारस्परिकं संधावं वाचैव क्रियत इत्येतत्सत्यममुष्याः श्रुतेः प्रादुर्भवति । एष एवा. भिप्रायो दण्डिनाऽपि काव्यादर्श समुपदर्शितः, " इह शिष्टानुशिष्टानां शिष्टानामपि सर्वथा वाचामेव प्रसादेन लोकयात्रा प्रवर्तते ॥ इदमन्धं तमः कृत्स्नं जायेत भुवनत्रयम् यदि शब्दाह्वयं ज्योतिरा संसारान दीप्यते ॥” इति । देशजनसमूहपरिच्छिन्ना एकाऽपि वाग् विविधासु भाषालु संविभक्ता भवति । प्रत्येकं भाषा तत्तद्देशजनसमूहसंस्कारलक्षः णान्याविष्करोति । यथा यथा कस्याश्चित् प्रजायाः संस्कृति समुपबृंहते तथा तथा तस्या भाषासमृद्धिरपि विपुलता वैविध्यं सौक्ष्म्यं चावाप्नोति । प्रजायाः संस्कार एव भाषायाः परा शक्तिः। भाषापारंपर्यस्य सर्वाङ्गं गवेषणं तद्भाषाभाषिण्याः प्रजायाः संस्कतेरितिहासं व्यनक्ति । तस्मादेव भारतवर्षे प्राचीनतमा ऋषयः निरुक्तव्याकरणे वेदाङ्गकक्षायां न्यदधुः । गोर्वाणभाषासत्वान्वेषणपरेण भगवता पतञ्जलिना भारतवर्षीयसंस्कृतिसौष्ठवरिरक्षणा तस्मादेव कंचिद्ब्राह्मणग्रन्थमवतार्य समुद्घोषितम् । “एकः शब्दः सम्यग्शातः शास्त्रान्वितः सुप्रयुक्तः स्वर्ग लोके कामधुग्भवती" ति ॥ १. ऐतरेयारण्यक. ३. १. ६. . २. दण्डिन्-काव्यादर्श-अ० १. श्लो. २-३. ३. पतञ्जलि-व्याकरणमहाभाष्य-अ. १. पा. १. आहिक १-पत्र (५. (निर्णयसागरावृत्तिः)

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 386