Book Title: Apbhramsa Pathavali
Author(s): Madhusudan Chimanlal Modi
Publisher: Gujarat Varnacular Society

View full book text
Previous | Next

Page 14
________________ इति । सः चेम उल्लेखा अपभ्रंशस्थानविषयेऽस्मदीयाभिप्रायमेव द्रढयन्ति । एकादश्यां विक्रमशताब्द्यां विद्यमानो भोजराजः सरस्वतीकण्ठाभरणे, पठन्ति लटभं लाटाः प्राकृतं संस्कृतद्विषः अपभ्रंशेन तुष्यन्ति स्वेन नान्येन गुर्जराः ॥3 इत्यभिप्रायमाविष्कुर्वाणो राजशेखराभिप्रायमेव समर्थयति। एवं च सापभ्रंशप्रयोगाः प्रदेशा आर्यावर्तस्य पश्चिमाशावतिन इत्यप्रत्याख्येयोऽयं सिद्धान्तः ॥ अत्रापभ्रंशस्य विविधाः पारंपर्यसमाम्नाताः शाखा इति के. षांचिन्मतम् । तत्त्वत्र समुपस्थापितमपभ्रंशैकत्वपक्षं न व्यावर्तयति। साहित्ये प्रयुज्यमानस्यैकस्याप्यभ्रंशस्य प्रादेशिकविशेषत्वाल्लोकोक्तिगताः बहवः शाखा भवेयुरिति नास्मदीयसिद्धान्तबाधकमनुभवविरुद्धं वा । वि. सं. ११२५ वर्षे रुद्रटीयकाव्यालङ्कारटोकायां ममिसाधुरभिधत्ते। "पाणिन्यादिव्याकरणोदितशब्दलक्षणेन संस्करणात्संस्कृतमुच्यते । तथा प्राकृतभाषेव किंचिद्विशेषलक्षणान्मा. गधिका भण्यते । तथा प्राकृतमेव किंचिद्विशेषात् पैशाचि. कम् । शौरसेन्यपि प्राकृतभाषैव । तथा प्राकृतमेवापभ्रंशः। स चान्यैरुपनागराभीरनाम्यावभेदेन त्रिधोक्तस्तन्निरासार्थमुक्तं भूरिमेद इति । कुतो देशविशेषात् । तस्य च लक्षणं लोकादेव स. म्यगवसेय " मिति । एवं च रुद्रटमतसमर्थनपरो नमिसाधुरप. भ्रंशस्य त्रीन् भेदान्न स्वीकरोति । प्राच्यपरंपरासमाम्नायमनुमृत्य मार्कण्डेयेन प्राकृतसर्वस्वे नागरोपनागरवाचडसंज्ञा अपभ्रंशस्य त्रयो मेदा अभिहिताः । अस्माभिः प्रस्तुतग्रन्थस्य चतुर्थोद्धरणस्य प्रस्तावे टाक्क्यपभ्रंशस्य शाखैवेति प्रतिपिपादयिषद्भिः प्रा. १३. भोजदेव-सरस्वतीकण्ठाभरण. २-१३. १४. रुद्रट-काव्यालङ्कार २-११. नमिसाधु-टीका. १५. मार्कण्डेय-प्राकृतसर्वस्त्र पाद. १७-१८. देश्यभाषाणामपभ्रंशे समावेशनायोक्तेषु बहुष्वपभ्रंशप्रकारेष्वपि मुख्यतया वर्तमानानामपभ्रंशस्य त्रयाणां प्रकाराणां विवेचनं मार्कण्डेयेन विस्तरतो कृतमपरे तु केवलं निर्दिष्टाः ।

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 386