Book Title: Taittiriya Samhita Part 02 Author(s): A Mahadev Shastri, K Rangacharya Publisher: Government of Mysore View full book textPage 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 'तैत्तिरीयसंहिता का. १. प्र. ४. गम्भीरमममध्वरध्युत्तमेन पृधि नेन्द्राय सोम सुर्घतम्मधुमन्तम्पध्वर-कृत् । देवेभ्यः । गम्भीरम् । इमम् । अध्वरम् । कृधि । उत्तमेनेत्युत्-तमेन । पविना । इन्द्राय । सोम॑म् । सुश्रुतमिति सु-सुतम् । मधुमन्तमिति मधु-मन्तम् । पर्यस्वन्तम् । वृष्टिवनि उपांशुसवन अध्वररुत् अध्वरस्य यज्ञस्य कर्ता अभिषवद्वारेण सम्पादयिता ग्रावा त्वमसि । एवं नाम प्रशस्तोसि । यहाअध्वरकृत्यातू* स्तोतव्यस्त्वमसि । गृणातेः स्तुतिकर्मणः ‘अन्येभ्योपि दृश्यते ' इति क्वनिप् , आडागमः, इत्वाभावश्च दृशिग्रहणात् । गिरतेर्वा, गिरति सोममभिषवकाल इति । स त्वं देवेभ्यो देवार्थम् । षष्ठयर्थे वा चतुर्थी । देवानां सम्बन्धिनं गम्भीरं गहनमिमं प्रस्तुतमध्वरं कृधि सम्पादय । करोतेलोटि 'बहुलं चन्दसि' इति शपो लुक् , ' श्रुशृणुपुकवृभ्यश्छन्दसि' इति हेर्धिभावः, पादादिरपि व्यत्ययेन निहन्यते । तदर्थं किं क्रियतामित्यत आह–उत्तमेनोत्कृष्टेन पविना पवनेना शोधनेन अभिषवात्मना तत्कर्तृकेण । इन्द्राय इन्द्रार्थं सोमं सुषुतं सुष्टु अभिमतं कधीत्यत्रापि सम्बध्यते । ‘गतिरनन्तरः' इति पूर्वपदप्रकृतिस्वरत्वम्, 'उपसर्गात्सुनोति ' इति षत्वम् । यहा-इन्द्राय इन्द्रस्य यः पविर्वजः उत्तमस्तेन सोमं सुषुतं कुरु । तेनैव खल्विदं कृतं भवति, यत्त्वया क्रियत इति भावः । *ख-कृत्. ग-कृत्त्वात्. कि. ख-पावनेन. For Private And PersonalPage Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 370