________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
'तैत्तिरीयसंहिता
का. १. प्र. ४.
गम्भीरमममध्वरध्युत्तमेन पृधि
नेन्द्राय सोम सुर्घतम्मधुमन्तम्पध्वर-कृत् । देवेभ्यः । गम्भीरम् । इमम् । अध्वरम् । कृधि । उत्तमेनेत्युत्-तमेन । पविना । इन्द्राय । सोम॑म् । सुश्रुतमिति सु-सुतम् । मधुमन्तमिति मधु-मन्तम् । पर्यस्वन्तम् । वृष्टिवनि
उपांशुसवन अध्वररुत् अध्वरस्य यज्ञस्य कर्ता अभिषवद्वारेण सम्पादयिता ग्रावा त्वमसि । एवं नाम प्रशस्तोसि । यहाअध्वरकृत्यातू* स्तोतव्यस्त्वमसि । गृणातेः स्तुतिकर्मणः ‘अन्येभ्योपि दृश्यते ' इति क्वनिप् , आडागमः, इत्वाभावश्च दृशिग्रहणात् । गिरतेर्वा, गिरति सोममभिषवकाल इति । स त्वं देवेभ्यो देवार्थम् । षष्ठयर्थे वा चतुर्थी । देवानां सम्बन्धिनं गम्भीरं गहनमिमं प्रस्तुतमध्वरं कृधि सम्पादय । करोतेलोटि 'बहुलं चन्दसि' इति शपो लुक् , ' श्रुशृणुपुकवृभ्यश्छन्दसि' इति हेर्धिभावः, पादादिरपि व्यत्ययेन निहन्यते । तदर्थं किं क्रियतामित्यत आह–उत्तमेनोत्कृष्टेन पविना पवनेना शोधनेन अभिषवात्मना तत्कर्तृकेण । इन्द्राय इन्द्रार्थं सोमं सुषुतं सुष्टु अभिमतं कधीत्यत्रापि सम्बध्यते । ‘गतिरनन्तरः' इति पूर्वपदप्रकृतिस्वरत्वम्, 'उपसर्गात्सुनोति ' इति षत्वम् । यहा-इन्द्राय इन्द्रस्य यः पविर्वजः उत्तमस्तेन सोमं सुषुतं कुरु । तेनैव खल्विदं कृतं भवति, यत्त्वया क्रियत इति भावः । *ख-कृत्. ग-कृत्त्वात्.
कि. ख-पावनेन.
For Private And Personal