Book Title: Ssut Samhita Author(s): Mahadev Chimnaji Aapte Publisher: Anand Ashram View full book textPage 5
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आदर्शपुस्तकोल्लेखपत्रिका | अथास्याः सटीक सूतसंहितायाः पुस्तकानि यैः परहितैकपरतया संस्करणार्थं प्रदत्तानि तेषां नामादीनि पुस्तकानां संज्ञाश्च कृतज्ञतया प्रकाश्यन्ते । (क.) इति संज्ञितम् - मूलं सटीकम्, अन्तिमभागे किंचिदपूर्ण, मुंबापुरनिवासिनां वे० शा ० रा० रा० 'जयकृष्ण महाराज' इत्येतेषाम् । पत्राणि २८२ । एकपत्रस्थाः पङ्कयः १३ | एकपङ्किस्थान्यक्षराणि ५२ । लेखनकालस्तु सार्धशतवत्सरात्पुरतोऽस्तीत्यनुमीयते । (ख) इति संज्ञितम् -- मूलं सटीकं किंचिदपूर्ण, मुंबापुर निवासिनां वे० शा० रा० 'जयकृष्ण महाराज' इत्येतेषाम् । पत्राणि ३९५ । पङ्कयः १३ । अक्षराणि ३५ । लेखनकालस्तु साधर्शतवत्सरमित इत्यनुमीयते । (ग) इति संज्ञितम् — मूलं सटीकं किंचिदपूर्ण, बडलीग्रामनिवासिनां चिदम्बरदीक्षितकुलोत्पन्नानां वे० शा ० रा० 'मार्तण्डदीक्षित' इत्येतेषाम् । पत्राणि ३३२ । पङ्कयः १३ | अक्षराणि ४७ | लेखनकालस्तु पादोनशतवत्सरमित इत्यनुमीयते । (घ) इति संज्ञितम् -- मूलं सटीकं पूर्ण, अष्टेग्रामनिवासिनां रा० रा० " गोविन्दराव लिमये" इत्येतेषाम् । पत्राणि ४२८ । पङ्कयः १० | अक्षराणि ६० । लेखनकालः शतवत्सरमितोऽस्तीत्यनुमीयते । (ङ) इति संज्ञितम् - मूलं सटीकं पूर्णं, मेणवलीग्रामनिवासिनां रा० रा० ' रावसाहेब फडणीस' इत्येतेषाम् | पत्राणि४७७ । पङ्कयः १३ | अक्षराणि ४८ । लेखनकालः शतवत्सरमित इत्यनुमी | पुण्यपत्तननिवासिभिः 'राजवाडे' इत्युपा हैः वे० शा० रा० ' कृष्णशास्त्री ' इत्येतैरेकं पुस्तकं प्रदत्तं, तस्यापि मुद्रणकाले शोधनार्थमतीवोपयोगः संवृत्तः । समाप्तेयमादर्श पुस्तकोल्लेखपत्रिका | For Private And Personal Use OnlyPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 366