Book Title: Ssut Samhita
Author(s): Mahadev Chimnaji Aapte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 11
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः १] सूतसंहिता। इत्यादि । ननु व्यासेन सूताय प्रागेवोपदिष्टान्यष्टादशपुराणानि । अधुना तत्पुनर्मुनयः शृण्वन्ति सूतो व्याचष्टे । व्यासस्तु कुरुते मङ्गलाचरणमित्यसंगतमुच्यते । व्यासः सूताय पुराणानि प्रागुपदिश्यापि तान्येव संप्रति मुनिमूतसंवादात्मना निबंधाति स्वयं क्रियमाणनिबन्धनादौ स्वयमेव मङ्गलमाचरतीति किमनुपपन्नम् । अथ सूताय स्वात्मन उपदेशरूपं परित्यज्य व्यासेन मुनिमूतसंवादात्मना निबन्धने किं प्रयोजनम् । उच्यते । पुराणप्रतिपाद्यायास्तत्वविद्यायाः प्रभावातिशयाविष्करणं प्रयोजनम् । तथाहि इत्थं प्रभावेयं विद्या यत्सूतः प्राम. होकनीयानपि व्यासात्पुराणमुखादेनामधिगम्य अग्रजानामपि मुनीनां स्वयं तत्त्वोपदेशकर्ता जात इति । तत्र सत्रावसाने विशुद्धहृदयाः प्रसन्नेन्द्रियमानसा इति पदत्रयेण मुनीनां परविद्योचिताधिकारसंपत्तिनिरूपणम् । तथाहि श्रुतिस्मृतीतिहासपुराणप्रतिपादितवेदानुवचनयज्ञदानतपोव्रतादिभिः प्रक्षीणसकलकलुषस्यात एव शुद्धबुद्धे निजिज्ञासस्य परशिवस्वरूपविद्यायाधिकारः । अत ईग्विधविद्याग्रहणाधिकारे कारणगुणगणा उचितत्वादाविष्कर्तव्याः । तत्र सत्रावसान इत्यनेन श्रौतसकलकर्मानुष्ठानं विद्यापतिबन्धकसकलपापापनयनरूपविशुद्धहृदयत्वे कारण मुच्यते । चतुर्विधा हि सोमयागाः । एकाहाहीनसत्रायनात्मकाः। एकैदिनसाध्या अग्निष्टोमादय एकाहाः । द्विरात्रादय एकादशरात्रावसाना अहीनाः । द्वादशाहस्तु सत्राहीनोभयात्मकः । त्रयोदशरात्रादीनि सत्राणि । संवत्सरसाध्यान्ययनानि । अयनेष्वपि च सत्रमयोगो दृश्यते । गावो वा एतत्सत्रमासत विश्वसृजः समाः सत्रमासतेति तथा ॥ "नैमिषे निमिषक्षेत्रे ऋषयः शौनकादयः ।। सत्रं स्वर्गाय लोकाय सहस्रसममासत" इति ॥ तदिह नैमिषीयैः क्रियमाणस्यानेकसंख्यासंवत्सरस्गध्यस्यायनत्वेपि सत्रपदप्रयोगोपपत्तिः । सत्रं च परमो धर्म इत्यपरेषामपि महतां वेदानुवचनानां दानतपोव्रतादीनामुपलक्षणम् । तेषामपिहि चित्तद्धिद्वारा विविदिषाकारणत्वमिष्यमाणवेदनकारणत्वं च श्रूयते । “ तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन" इति । तथा पाशुपतव्रतस्यापि परशिवसाक्षात्कारकारणत्वमथर्वशिरसि दृश्यते । अग्निरित्यादिना भस्म गृहीत्वा निमृज्याङ्गानि संस्पृशेत्तस्माद्ब्रतमेतत्पाशुपतं पशुपाशविमोक्षायेति । उक्तस्य सत्रपदोपलक्षितस्य कर्मराशेर्बुद्धिशुद्धौ कारणभावमाह-विशुद्धहृदया इति । हृदयं १ ख. 'दिना । न । २ क. स्त्र. ग. घ. 'बधातीति । ३ क, ग. घ. हान्कनी । ४ ध. 'णत्वमु५ घ. 'योगाः दृश्यन्ते। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 366