Book Title: Ssut Samhita
Author(s): Mahadev Chimnaji Aapte
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तात्पर्यदीपिका समेता |
[१] शिवमाहात्म्यखण्डे
दम्' इत्यणि 'नस्तद्धिते' इति टिलोपस्य अन्निति प्रकृतिभावेन निरासेऽपि 'ब्राह्मोऽजातो' इति निपातनाट्टिलोपः ॥ ७ ॥
ततो भागवतं प्रोक्तं भविष्याख्यं ततः परम् । सप्तमं नारदीयं च मार्कण्डेयं तथाSष्टमम् ॥ ८ ॥ आग्नेयं नवमं पश्वाद्ब्रह्मवैवर्तमेव च । ततो लैङ्गं वराहं च ततः स्कान्दमनुत्तमम् ॥ ९ ॥ वामनाख्यं ततः कौर्म मात्स्यं तत्परमुच्यते । गरुडाख्यं ततः प्रोक्तं ब्रह्माण्डं तत्परं विदुः ॥ १० ॥ ग्रन्थतश्च चतुर्लक्षं पुराणं मुनिपुङ्गवाः । अष्टादशपुराणानां कर्ता सत्यवतीसुतः ॥ ११ ॥ ॥ ८ ॥ ९ ॥ १० ॥ ग्रन्थतश्च चतुर्लक्षमिति सङ्ख्याभिधानं प्रक्षेपविप्लवपरिहा
राय ॥ ११ ॥
कामिकादिप्रभेदानां यथा देवो महेश्वरः ।
अष्टादशपुराणानि श्रुत्वा सत्यवतीसुताव ॥ १२ ॥
काभिककारणादीनामागमसंहितानां शिवेनैव प्रणयनात्प्रामाण्ये यथा विश्वम्भ एवं नारायणावतारेण व्यासेन प्रणयनात्पुराणेष्वप्यसार्वविशिष्ट इत्याहअष्टादशपुराणानामिति । नानामुनिप्रणीतानामुपपुराणानामप्येतन्मूलत्वादतेषां प्रणेतुर्व्यासस्य सार्वज्ञयं किं वक्तव्यमित्याह- अष्टादशपुराणानि श्रुत्वेति ॥ १२॥ अन्यान्युपपुराणानि मुनिभिः कीर्तितानि तु । आद्यं सनत्कुमारेण प्रोक्तं वेदविदां वराः ॥ १३ ॥ द्वितीयं नारसिंहाख्यं तृतीयं नान्दमेव च । चतुर्थं शिवधर्माख्यं दौर्वासं पञ्चमं विदुः ॥ १४ ॥ षष्टंतु नारदीयाख्यं कापिलं सप्तमं विदुः । अष्टमं मानवं प्रोक्तं ततश्वोशनसेरितम् ॥ १५ ॥ ततो ब्रह्माण्डसंज्ञं तु वारुणाख्यं ततः परम् । ततः कालीपुराणाख्यं विशिष्टं मुनिपुङ्गवाः ॥ १६ ॥
१ क. वर्तमुच्यते । २ ङ. विकल्पपरि । ३ ङ ण्येन यं । ४ ख. 'ववशिष्ट । ५ म. ग. वामनं 1.
For Private And Personal Use Only

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 366