Book Title: Ssut Samhita
Author(s): Mahadev Chimnaji Aapte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 20
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तात्पर्यदीपिकासमेता [१शिवमाहात्म्यखण्डे सूत्रम् । मूलभूतवेदानुमानेन स्मृत्यादेः प्रामाण्यं तद्विरोधे त्वनुमानमेव नोदेतीति मूलाभावादुपेक्षणीयम् । अथवा यावन्मूलोपलम्भं प्रत्यक्षश्रुतिविरुद्धस्मृ. त्यावर्थो नानुष्ठेय इति सूत्रार्थः । वेदाविरोधेन चेत्मामाण्यं तर्हि ऋग्वेदेऽनुदितहोमं निन्दित्वोदितहोमो विधीयते "प्रातः प्रातरतं ते वदन्ति पुरोदयाज्जुह्वति पेऽग्रिहोत्रम् । दिवाकीर्त्यमदिवाकीर्तयन्तः सूर्यो ज्योतिर्न तदा ज्योतिरेषाम्" इति ।। पजुर्वेदे सूदितहोमनिन्दयाऽनुदितहोमो विधीयते "यथाऽतिथये प्रद्रुताप शून्यायावसथायाऽऽहार्य हरन्ति ताहेक्तद्यदुदिते जुहोति" इति । अतः परस्परविरोधाद्वेदद्वयमप्रमाणं स्यादित्यत्राह । एक एव द्विजा वेद इति । सर्वोऽयमेक एव वेदस्तत्कुतः परस्परविरोधः । नचैवं स्ववचनव्याघातः । षोडशिग्रहणाग्रहणवचनवद्विकल्पाभिप्रायत्वादित्यर्थः ॥ ३७॥ तथाऽपि मुनिशार्दूलाः शाखाभेदेन भेदितः । अनन्ता वै द्विजा वेदा वेदार्थोऽपि द्विजोत्तमाः॥३८॥ कथं तर्हि भेदव्यवहारः "अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः" इतिस्मृतिः । "वेदा वा एते अनन्ता वै वेदाः" इति च श्रुतिरित्यत आह । तथाऽपीति । एकस्याप्यपरिमितस्य वेदस्य केनचिदप्येकेन रूपेणाध्येतुं तदर्थस्य चानुष्ठातुमशक्यत्वादेकं वेदमृग्यजुःसामाथवभेदेन चतुर्धा विभज्य तत्रैकैकः पुनरैतरेयादिशाखाभेदेन भेदित इत्यर्थः ॥ ३८ ॥ अनन्तो वेदवेद्यस्य शंकरस्य शिवस्य तु । मायया न खरूपेण दिजा हा देववैभवम् ॥ ३९॥ ननु वेदशाखा एव वेदसङ्ख्याताः कथं तर्हि "एक एव रुद्रो न द्वितीयाप तस्थे" इति तैत्तिरीपक श्रुतिः । “अहमेकः प्रथममासं वामि च भविष्यामि च । नान्यः कश्चिन्मत्तो व्यतिरिक्तः" इत्यथर्वशिरसि वचनमित्यत आह । वेदवेद्यस्येति । मायया न स्वरूपेणेति । परमार्थतो शाद्वितीयो रुद्र इत्युक्तम् । अतस्तेनैव लीलया निर्मितस्प मायामयस्य न वास्तवेन तदद्वैतेन विरोध इत्यर्थः । नन्वेतादृशी लीला क्वचिदपि लोके न दृष्टचरीत्यत आह । द्विजा १ ख. ताडगेव तद्य। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 366