Book Title: Ssut Samhita
Author(s): Mahadev Chimnaji Aapte
Publisher: Anand Ashram

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भध्यायः १] सूतसंहिता। मायाकार्येण कालेनावच्छेदादेव कथं तदसंस्पर्श इति तत्राऽऽह । आदीति । स्वभागभावावच्छिन्नो भूतकाल आदिः । स्वावच्छिन्नो वर्तमानकालो मध्यः । स्वप्रध्वंसावच्छिन्नो भविष्यत्कालोऽन्तः । एतत्रितयवर्जितम् । कलातवसहभावि हि कालतत्त्वम् । उक्तं हि । पुंसो जगत्कर्तृत्वार्थ मायातस्तत्त्वपवकं भवति कालो नियतिश्च तथाभूतयदृच्छास्वभावाश्च । तथा च कलासहमावी काल एव नास्ति । कुतो निष्कलपरमशिवस्य तत्कृतपरिच्छेदाशङ्कत्यभिप्रायः । इत्थं निष्कलमणिधानं कृतम् । सकलमपि द्विविधम् । समस्तजगदात्मकम् । समस्तजगनियन्तृ । समस्तजगदात्मकमुपादानत्वात् । जगनियन्तृलीलावताररूपेण च नमस्कारः कृतः । तत्र जगदात्मना प्रणाममाह द्वितीयाधैन । आधारमिति । यथैव हि जगतां नियन्ता सत्त्वमायोपाधिवशात्तमउपाधिवशाजगदात्मकः । एवं रजोगुणोपाधिवशाजगदाधारोऽपि । उक्ते हि जगनियन्तृत्वजगदात्मकत्वे परमेश्वरस्य-"शिवो दाता शिवो भोक्ता शिवः सर्वमिदं जगत्" इति ॥ __ "स्थितिसंयमकर्ताच जगतोऽस्य जगच्च सः" इति।श्रुतेश्च"सोऽकामयत बहु स्यां प्रजायेय" इति । तेन हि सोऽकामयतेति निमित्तत्वम् । बहु स्यामित्युपादानत्वम् । तथा पारमर्ष सूत्रमपि "प्रकृतिश्च प्रतिज्ञा दृष्टान्तानुपरोधात्" इति । यथैव सर्वलोकानामयमाधार एवमस्यापि कश्चिदन्य आधार इति भ्रमं व्युदस्यति । अनाधारमिति । स्वातिरिक्ताधाररहितः । स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिनीति स्वमहिमप्रतिष्ठत्वश्रुतेः । ननु जगत आधारश्चेदाधेयजगदात्मना धर्मेण उपायापायवत्ताविकारित्त्वं तस्य स्यात् ।। "उपयनपयन्धर्मो विकरोति हि धर्मिण" इति न्यायादिति तत्राऽऽहअविक्रियमिति । कल्पितत्वेन जगतो न स्वाश्रयविकारहेतुता । नहि मरुमरीचिकाजलैर्मरुभूमिरार्दीक्रियत इत्यर्थः ॥ १॥ अनन्तानन्दबोधाम्बुनिधिमतविक्रमम् । अम्बिकापतिमीशानमनीशं प्रणमाम्यहम्॥२॥ इदानी जगनियन्तृत्वे लीलावताररूपेण प्रणिधानमाह-अनन्तेति द्वितीपश्लोकेन अवतारो हि ध्यानपूजाद्यर्थमपि शिवेन स्वीक्रियते । तदुक्तं मुपभेदे ॥ १ क. ख. ग. घ. पुस्तकेषु स्वप्रध्वंसावच्छिन्नकालो भविष्यदन्तः । स्वावछिन्नो वर्तमानकालो मध्यः इति व्यस्तमुपलभ्यते । २ ग. स्वभावश्च । ३ घ. दानं स्यात् । ४ रु. कः । एवं रजो। ५ क.. घ. श्रूयते च ।। 6. भ्रममुद। ७ ग. 'मनिशं । ८ . नियन्तली'। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 366