Book Title: Ssut Samhita
Author(s): Mahadev Chimnaji Aapte
Publisher: Anand Ashram
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६
तात्पर्यदीपिका समेता |
[१ शिवमाहात्म्यखण्डे
बुद्धिस्तस्य विशुद्धिर्नाम संचितदुरितापनयनेन तनिबन्धनस्य दुःखस्प निरासः | नैमिषीया इति । ब्रह्मणा विसृष्टस्य चक्रस्य नेमिः शीर्यते कुण्ठीभवति यत्र तत्रेमिषं नेमिषमेव नैमिषम् । तथाचोक्तं वायवीये ॥
"" एतन्मनोमयं चक्रं मया सृष्टं विसृज्यते । यत्रास्य शीर्यते नेमिर्नैमिषं तच्छुभावहम् || इत्युक्त्वा सूर्यसंकाशं चक्रं सृष्ट्वा मनोमयम् । प्रणिपत्य महादेवं विससर्ज पितामहः ॥ dsपि हृष्टतरा विप्राः प्रणम्य जगतां पतिम् । प्रययुस्तस्य चक्रस्य यत्र नेमिर्व्यशीर्यत || " तद्वनं तेन विरूपातं नैमिषं मुनिपूजितम्" इति ।
नैमिषमेषां निवास इति नैमिषीयाः । तथा प्रसन्नेन्द्रियमानसा इति । मनसः प्रसादो नाम रजस्तमोभ्यामनभिभवादावरण विक्षेपेविरहेण तत्त्वप्रणिधान ऐका - यम् । इन्द्रियाणां प्रसादो नाम प्रसन्नता मैनः प्रातिकूल्यपरिहारेण प्रत्युत तदानुकूल्येनैव वर्तनम् । श्रूयते हि
46 यस्त्वविज्ञानवान्भवत्यमनस्कः सदा शुचिः । तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः ॥ यस्तु विज्ञानवान्भवति समनस्कः सदा शुचिः । स्पेन्द्रियाणि वश्यानि सदश्वा इव सारथेः" इति ॥
पतञ्जलिरप्याह" स्वविषयासंप्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः" इति । इत्थमिह जन्मनि जन्मान्तरे वा विहितैर्ब्रतदानादिभिः संचितदुरितनिरासद्वारा रजस्तमोभ्यामनभिभूतहृदयास्तत्त्वजिज्ञासवो विद्याग्रहणाधिकारिणो दर्शिताः । विद्योपदेशे तु सूतस्येदानीमधिकारितामाह – महात्मा - नमागतमिति । उभयं हि तत्रापेक्षितम् । अनुग्रहसामर्थ्यमनुग्रहशीलत्वं चेति । तत्र महात्मानमिति महादेवप्रसादादासादितपरशिवस्य साक्षात्कारनिबन्धनमनुग्रहसामर्थ्यमुक्तम् । आगतमिति विशिष्टाधिकारिलाभात्तदुद्धरणार्थमनाहुतस्यापि स्वयमेवाभिगमनात्परमकारुणिकत्वादनुग्रहशीलत्वमुक्तम् । यथा जनकंप्रति याज्ञवल्क्यस्येति ॥ ३ ॥
१ घ. ंन्धस्य । २ ख. 'पपरिहारेण । ३ क. घ. मनःप्रतिकूलपरि । ग. ङ. मनः प्रति प्रातिकूल्य ं । ४ क. ख. घ. 'निभवाद्धृद । ५. घ. महत्तपः प्रकर्षादासादितपर शिवसा ।
For Private And Personal Use Only

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 366