Book Title: Shantinath Charita Part 01
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 7
________________ प्रथमः प्रस्तावः । इतश्चात्रव भरते देश मगधनाम नि । वियाऽभिराम: सवामोऽस्त्यचलग्राम'नामकः ॥ १७ ॥ तत्राभूद्धरणिजटाभिधानो हिजपुङ्गवः । वेदवेदाङ्गतत्त्वज्ञो यशोभद्रा च तत्प्रिया ॥ १८ ॥ स नन्दिभूतिथीभूती यशोभद्राभवौ सुतौ। यत्नतः पाठयामास वेदशास्त्रमहर्निशम् ॥ १८ ॥ दास्या कपिलया जातः कपिलोऽप्यस्य नन्दनः । स तु जातिविहीनत्वादतिप्रज्ञाधिकोऽभवत् ॥ २० ॥ स्वपित्रा पाठ्यमानो तो शृण्वान: कपिलोऽय सः । जन्ने चतुर्दशविद्यास्थानविज्ञानकोविदः ॥ २१ ॥ ग्टहान्निसृत्य यज्ञोपवीतयुग्मं वहंस्तत: । महाब्राह्मणमात्मानं मन्यमानोऽभ्रमद्भवि ॥ २२॥ स प्राययो रत्नपुरे सत्यकिर्नाम तत्र च । उपाध्यायो बहन छात्रान वेदपाठमकारयत् ॥ २३ ॥ पप्रच्छ कपिलश्छात्रान् वेदोपनिषदं तथा । यथा नोत्तरमेतस्मै दातुमीशा इमे ऽभवन् ॥ २४ ॥ विज्ञाय तं महाप्राज्ञमुपाध्यायो निजे पदे। स्थापयामास को नाम गुणेन लभते पदम् ॥ २५ ॥ उपाध्यायस्य तस्यासोज्जम्बुका नाम रोहिनी । तत्कुक्षिसम्भवा पुत्री सत्यभामाऽभिधा तथा ॥ २६ ॥ ११) ग -संचा ।

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 104