Book Title: Shantinath Charita Part 01
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 21
________________ प्रथमः प्रस्तावः । ततश्च विप्रे पुण्याहं पुण्याहमिति जल्पति । चत्वारि परितो वह्निं भ्रमतुर्मण्डलानि तौ ॥ ५८ ॥ प्रथमे मण्डले राजा चारुवस्त्राण्यनेकशः । वरायादाद् द्वितीये च स्थाला 'भरणसञ्चयम् ॥ ५८ ॥ तृतीये मणिहेमादि चतुर्थे च रथादिकम् । जायापत्योस्तयोरित्यं जज्ञे पाणिग्रहोत्सवः ॥ ६० ॥ कृतोद्दाहे वरे चास्मिन् वधूहस्तममुञ्चति' । उवाच नृपतिर्भूयो वत्स यच्छामि किं नुरै ते ॥ ६१ ॥ ततश्च याचितस्तेन जात्यघोटकपञ्चकम् । तत्तस्मै शीघ्रमेवासौ प्रददौ प्रीतमानसः ॥ ६२ ॥ वाद्यमाने ततस्तूर्येऽभवद्धवलमङ्गलः । मन्त्रिणा स्वगृहं निन्ये समं वध्वा स मङ्गलः ॥ ६३ ॥ तत्रामात्यग्टहजनञ्छनं छत्रमभाषत । कथं निर्वास्यतेऽद्यापि नायं वैदेशिको नरः ॥ ६४ ॥ त्रैलोक्यसुन्दरी साऽथ चलचित्तं निजं पतिम् । ज्ञात्वेङ्गितैस्ततस्तस्योपान्तं नैवामुचत् क्षणम् ॥ ६५ ॥ ततः क्षणान्तरेणासौ देहचिन्तार्थमुत्थितः । जलपात्रं ग्टहीत्वाऽऽश तदनु प्राचलच्च सा ॥ ६६ ॥ कृतायामपि तस्यां तं शून्यचित्तं रहः स्थितम् ॥ उवाच प्रेयसी कान्त बाधते त्वां क्षुधा नु किम् ॥ ६७ ॥ (१) ख घ वस्त्रा । (२) ङ - हस्तं न मुञ्चति । ३ (३) १७ च ।

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104