Book Title: Shantinath Charita Part 01
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society
View full book text
________________
हितीयः प्रस्तावः ।
प्रजापतिनृपस्त्वानां न ते लवयति क्वचित् । तदेतस्योपरि क्रोधो न कर्त्तव्यो मनागपि ॥ ३८ ॥ शालिक्षेत्राण्यथो तस्य वारंवारण पार्थिवैः । रक्ष्यन्ते स्म मृगारातः प्रतिवर्षमुपद्रवात् ॥ ४० ॥ तस्मिन् वर्षे च तद्रक्षामन्यदूतमुखेन सः । प्रजापतिमवारेऽप्यकारयत् क्रमानसः ॥ ४१ । पितरं प्रतिषिध्याथ कुमारी बलशालिनौ । जग्मतुस्तत्र यत्रास्ति शालिक्षेत्रप्रदेशभूः ॥ ४२ ॥ शशंसुर्विस्मितास्तेऽथ शालिगोपकपूरुषाः । रक्ष्यन्ते शालयो ह्येते नृपैः सबलवाहनैः ॥ ४३ ॥ युवां कावपि वर्तेथे नवीनौ शालिरक्षको। निःसनाही समायाती यो सैन्यपरिवर्जितौ ॥ ४४ ॥ जचे त्रिपृष्ठो भोस्तावत्स सिंहो दर्श्यतां मम । यथा तद्रक्षण क्लेशं सर्वथा वारयाम्यहम् ॥ ४५ ॥ ततस्तैर्दर्शितस्तस्य सिंहो गिरिगुहाशयः । ययौ च तहहाहार त्रिपृष्ठोऽपि रथ स्थित: ॥ ४६ ॥ रथचीत्कारनादेन जजागार स केशरी । प्रसारितास्यकुहरो गुहाया निर्जगाम च ॥ ४७ ॥ पदातिं तं समालोक्य कुमारोऽपि तथाऽभवत् । मुमोच खगरत्नं च तं निरीक्ष्य निरायुधम् ॥ ४८ ॥ कुमारचेष्टितं दृष्ट्वा दध्यो सिंहोऽपि विस्मितः । अहो आश्चर्यमेकं तत् यदेकोऽयमिहागतः ॥ ४८ ॥

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104