Book Title: Shantinath Charita Part 01
Author(s): Ajitprabhacharya, Indravijay
Publisher: Asiatic Society

View full book text
Previous | Next

Page 20
________________ श्रीशान्तिनाथचरित्र स्थापनीयं तु तत्सर्वमुज्जयिन्याः पुरोऽध्वनि । एवमस्त्विति तदाक्यं मैने मन्त्रापि बुद्धिमान् ॥ ४८ ॥ इति मङ्गलकुम्भोक्तं सचिवः प्रत्यपद्यत । सर्व च सज्जयामास कमाईवाहिकं विधिम् ॥ ४८ ॥ अथ व्योम्नःप्रतिच्छन्दमिव मण्डपमुत्तमम् । आदेश कारकैः भूपः स्वानुरूपमकारयत् ॥ ५० ॥ कुमारकः कृतस्नानः कृतचन्दनलेपन: । सदशखेतवसनो हस्त विन्यस्तकरणः ॥ ५१ ॥ . दत्तकुडमहस्तोऽथ हस्त्यारूढो विभूषणैः । उत्तममेरुशृङ्गाग्ररूढकल्पद्रुमोपमः ॥ ५२ ॥ द्राघीयोभिर्वरस्त्रीणां जलुलुध्वनिभिर्भशम् । पञ्चस्वनैश्च विदधत् दिवं नादमयौमिव ॥ ५३ ॥ कतशक्रधनुईण्डैर्मायूरातपवारणैः । वार्यमाणातपः प्राप मण्डपहारसबिधिम् ॥ ५४ ॥ उत्तीर्य कुञ्जरात् तुङ्गात् कुलस्त्रीभिः कृतं तदा । अर्धमेष प्रतीयेष प्रद्योतन इव प्रगे ॥ ५५ ॥ समासन्ने ततो लग्ने हस्तिस्कन्धाधिरोपितः । स निन्ये भूपतेः पाखें वस्त्राभरणभूषितः ॥ ५६ ॥ त्रैलोक्य सुन्दरी साऽथ दृष्ट्वा तं मन्मथोपमम् । अमंस्त तहरप्राप्त्या कृतार्थं स्वं मनस्विनी ॥ ५७ ॥ (१) व हि।

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104