Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 23
________________ योगदृष्टिसमुच्चयः ३३ स्विति = स्थिराद्यासु चतसृषु दृष्टिषु । अस्माद् = वेद्यसंवेदेद्यपदात् पापे= पापकर्मणि हिंसादौ, कर्मागसोऽपि हि कर्मापराधादपि । किमित्याहतप्तलोहपदन्यासतुल्या वृत्तिः संवेगसारा पापे, क्वचिद्यदि भवति, प्रायस्तु न भवत्येवेति ॥७०॥ किमित्येवम्भूतेत्याह वेद्यसंवेद्यपदतः संवेगातिशयादिति । चरमैव भवत्येषा पुनर्दुर्गत्ययोगतः ॥ ७१ ॥ वेद्यसंवेद्यपदतो=वक्ष्यमाणलक्षणात्, संवेगातिशयादिति=अतिशयसंवेगेन चरमैव भवत्येषा = पापप्रवृत्तिः । कुत इत्याह- पुनर्दुर्गत्ययोगतः श्रेणिकाद्युदाहरणात् । (शङ्का)- प्रतिपतितसद्दर्शनानामनन्तसंसारिणामनेकधा दुर्गतियोग इति यत्किञ्चिदेतत् न, अभिप्रायाऽपरिज्ञानात् क्षायिकसम्यग्दृष्टेरेव नैश्चयिकवेद्यसंवेद्यपदभाव इत्यभिप्रायाद्, व्यावहारिकमपि तु एतदेव चारु, सत्येतस्मिन् प्रायो दुर्गतावपि मानसदुःखाऽभावात् वज्रतन्दुलवदस्य भावपाकाऽयोगात् ॥७१॥ अचारु पुनरेकान्तत एव अतोऽन्यदिति यदाह अवेद्यसंवेद्यपदमपदं परमार्थतः । पदं तु वेद्यसंवेद्यपदमेव हि योगिनाम् ॥७२॥ अवेद्यसंवेद्यपदमिति = मिथ्यादृष्ट्याशयस्थानम् । अत एवाह अपदं परमार्थतः यथावस्थितवस्तुतत्त्वाऽनापादनात् । पदं तु = पदं पुनः, वेद्यसंवेद्यपदमेव वक्ष्यमाणलक्षणमन्वर्थयोगादिति ॥७२॥ तथा चाह ३४ योगदृष्टिसंग्रह वेद्यं संवेद्यते यस्मिन्नपायादिनिबन्धनम् । तथाऽप्रवृत्तिबुद्धयाऽपि स्याद्यागमविशुद्धया ॥ ७३ ॥ वेद्यं=वेदनीयं वस्तुस्थित्या तथाभावयोगिसामान्येनाऽविकल्पकज्ञानग्राह्यमिति योऽर्थः, संवेद्यते = क्षयोपशमानुरूपं निश्चयबुद्ध्यापि ज्ञायते, यस्मिन्= पदे आशयस्थाने । किंविशिष्टमित्याह = अपायादिनिबन्धनं नरकस्वर्गादिकारणम् स्त्र्यादि । तथा तेन प्रकारेण येन सामान्यानुविद्धं, अप्रवृत्तिबुद्धयाऽपि तदुपादानत्यागाऽऽशयात्मिकया संवेद्यते, स्त्र्यादि वेद्यं आगमविशुद्धया= श्रुतापनीतविपर्ययमलया प्रधानमिदमेव बन्धकारणं प्रेक्षावतामपीति स्क्र्यादिग्रहणम् ॥७३॥ तत्पदं साध्ववस्थानाद्भिन्नग्रन्थ्यादिलक्षणम् । अन्वर्थयोगतस्तन्त्रे वेद्यसंवेद्यमुच्यते ॥७४॥ तत्पदमिति, पदनात्पदमाशयस्थानं, साध्वस्थानात् =परिच्छेदात्सम्यगवस्थानेन, भिन्नग्रन्थ्यादिलक्षणं भिन्नग्रन्थिदेशविरतिरूपम् । किमित्याहअन्वर्थयोगतः=अन्वर्थयोगेन, तन्त्रे = सिद्धान्ते, वेद्यसंवेद्यमुच्यते वेद्यं संवेद्यतेऽनेनेति कृत्वा ॥७४॥ तस्मादन्यदाह अवेद्यसंवेद्यपदं विपरीतमतो मतम् । भवाभिनन्दिविषयं समारोपसमाकुलम् ॥७५॥ अवेद्यसंवेद्यपदं विपरीतमतो= वेद्यसंवेद्यपदात्, मतम् =इष्टम् । तथाहि-अवेद्यम्=अवेदनीयं वस्तुस्थित्या न तथाभावयोगिसामान्येनाऽप्यविकल्पकज्ञानग्राह्यं, तथाविधसमानपरिणामानुपपत्तेः तत्संवेद्यते=अज्ञानावरणक्षयोपशमानुरूपं निश्चयबुद्धयोपप्लवसारया मृगतृष्णोदकवज्ज्ञायते यस्मिन्पदे

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131