Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 69
________________ १२५ मित्रादृष्टिद्वात्रिंशिका संयमो ब्रह्म । भोगसाधनानामस्वीकारः अकिञ्चनता । एते यमाः । तदुक्तं "अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमा इति" (पातं. २-३०) । दिक्= देशस्तीर्थादिः, कालः चतुर्दश्यादिः, आदिना ब्राह्मण्यादिरूपाया जातेब्राह्मणादिप्रयोजनरूपस्य समयस्य च ग्रहः । ततो दिक्कालादिनाऽनवच्छिन्नाः "तीर्थे कञ्चन न हनिष्यामि, चतुर्दश्यां न हनिष्यामि, ब्राह्मणान्न हनिष्यामि, देवब्राह्मणाद्यर्थव्यतिरेकेण न कमपि हनिष्यामि' इत्येवंविधावच्छेदव्यतिरेकेण सर्वविषया अहिंसादयो यमाः सार्वभौमाः सर्वासु क्षिप्ताद्यासु चित्तभूमिषु सम्भवन्तो महाव्रतम् इत्युच्यते । तदुक्तं- "एते (तु) जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम्' (पातं. २-३१) । इति ॥२॥ १२६ योगदृष्टिसंग्रह मध्याश्चातीव्रमन्दाः, अधिमात्राश्च तीव्रा इति प्रत्येकं त्रिधा भिद्यन्ते । तदुक्तं"मृदुमध्याधिमात्राः" इति (पात २-३४) वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वकाः मृदुमध्याधिमात्रा: दःखाज्ञानानन्तफला इति प्रतिपक्षभावनम् । इत्थं च सप्तविंशतिवितर्का भवन्ति । अत्र मृद्वादीनामपि प्रत्येक मृदुमध्याधिमात्राभेदो भावनीय इति वदन्ति ॥४॥ दुःखाज्ञानानन्तफला अमी इति विभावनात् । प्रकर्ष गच्छतामेतद्यमानां फलमुच्यते ॥५॥ दुःखेति । दुःखं प्रतिकूलतयाऽवभासमानो राजसश्चित्तधर्मः । अज्ञानं मिथ्याज्ञानं संशयविपर्ययादिरूपं, ते अनन्ते अपरिच्छिन्ने फले येषां ते तथोक्ताः अमी वितर्का इति विभावनाद् निरन्तरं ध्यानात् प्रकर्ष गच्छतां यमानामेतद् वक्ष्यमाणं फलमुच्यते ॥५॥ बाधनेन वितर्काणां प्रतिपक्षस्य भावनात् । योगसौकर्यतोऽमीषां योगाङ्गत्वमुदाहृतम् ॥३॥ बाधनेनेति । वितर्काणां योगपरिपन्थिनां हिंसादीनां प्रतिपक्षस्य भावनात् बाधनेन अनुत्थानोपहतिलक्षणेन योगस्य सौकर्यतः सामग्रीसम्पत्तिलक्षणाद् अमीषाम् हिंसादीनां यमानां योगाङ्गत्वमुदाहृतम् ॥ न तु धारणादीनामिव समाधेः साक्षादुपकारकत्वेन, न वासनादिवदुत्तरोत्तरोपकारकत्वेनैव, किं तु प्रतिबन्धकहिंसाद्यपनायकतयैवेत्यर्थः । तदुक्तं - 'वितर्कबाधने प्रतिपक्षभावनमिति' (पातं. २-३३) ॥३॥ क्रोधाल्लोभाच्च मोहाच्च कृतानुमितकारिता । मृदुमध्याधिमात्राश्च वितर्काः सप्तविंशतिः ॥४॥ वैरत्यागोऽन्तिके तस्य फलं चाकृतकर्मणः । रत्नोपस्थानसद्वीर्यलाभो जनुरनुस्मृतिः ॥६॥ वैरेति । तस्य अहिंसाभ्यासवतः अन्तिके सन्निधौ वैरत्यागः सहजविरोधिनामप्यहिनकुलादीनां हिंस्रत्वपरित्यागः । तदुक्तं-(अहिंसाप्रतिष्ठायां) "तत्सन्निधौ वैरत्यागः" (पातं. २-३५) । सत्याभ्यासवतश्च अकृतकर्मणो अविहितानुष्ठानस्यापि फलं= तदर्थापनतिलक्षणम् । क्रियमाणा हि क्रिया यागादिकाः फलं स्वर्गादिकं प्रयच्छन्ति, अस्य तु सत्यं तथा प्रकृष्यते यथाऽकृतायामपि क्रियायां योगी फलमाश्रयते, तद्वचनाच्च यस्य कस्यचित् कियामकुर्वतोऽपि फलं भवतीति । तदाह सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वं (पातं. २-३६) । अस्तेयाभ्यासवतश्च रत्नोपस्थानं तत्प्रकर्षान्निरभिलाषस्यापि सर्वतो दिव्यानि रत्नान्युपतिष्ठन्त इत्यर्थः । क्रोधादिति । क्रोधः कृत्याकृत्यविवेकोन्मूलकः प्रज्वलनात्मकश्चित्तधर्मस्तस्मात् । लोभ: तृष्णालक्षणस्ततश्च । मोहश्च सर्वक्लेशानां मूलमनात्मन्यात्माभिसानलक्षणः । इत्थं च कारणभेदेन त्रैविध्यं दशितं भवति । तदुक्तं"लोभक्रोधमोहमूल" इति । (पातं. २-३४) व्यत्ययाभिधानेऽप्यत्र मोहस्य प्राधान्यं, स्वपरविभागपूर्वकयोर्लोभक्रोधयोस्तन्मूलत्वादिति वदन्ति । मन्दाः,

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131