Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 58
________________ योगविवेकद्वात्रिंशिका १०३ शुद्ध्यपेक्षो यथायोगं चारित्रवत एव च ।। हन्त ! ध्यानादिको योगस्तात्त्विकः प्रविजृम्भते ॥१६॥ शुद्ध्यपेक्ष इति । यथायोगं यथास्थानं शुद्ध्यपेक्षः उत्तरोत्तरां शुद्धिमपेक्ष्य प्रवर्तमानः चारित्रवत एव च हन्त तात्त्विकः पारमार्थिकैकस्वरूपो ध्यानादिको योगः प्रविजृम्भते प्रोल्लसति ॥१६॥ योगदृष्टिसंग्रह एवं चरमदेहस्य सम्परायवियोगतः । इत्वराश्रवभावेऽपि स तथाऽनाश्रवो मतः ।। निश्चयेनात्र शब्दार्थः सर्वत्र व्यवहारतः । निश्चयव्यवहारौ यद् द्वावप्यभिमतार्थदौ ॥ (योगबिन्दुः २७६.७७.७८) निश्चयेनेत्युपलक्षणे तृतीया । ततो निश्चयेनोपलक्षितात्तत्प्रापकव्यवहारत इत्यन्वयः ॥१८॥ इत्थं साश्रवाऽनाश्रवत्वाभ्यां योगद्वैविध्यमुक्त्वा शास्त्रसापेक्षस्वाधिकारिकत्वतद्विपर्ययाभ्यां तद्वैविध्याभिधानाभिप्रायवानाह शास्त्रेणाधीयते चायं नासिद्धेर्गोत्रयोगिनाम् । सिद्धेर्निष्पन्नयोगस्य नोद्देशः पश्यकस्य यत् ॥१९॥ अपायाऽभावभावाभ्यां सानुबन्धोऽपरश्च सः । निरुपक्रमकर्मैवाऽपायो योगस्य बाधकम् ॥१७॥ अपायेति । अपायस्याभावभावाभ्यां सद्भावासद्भावाभ्यां सानुबन्धोऽपरो निरनुबन्धश्च सयोगः । अपायरहितः सानुबन्धः, तत्सहितश्च निरनुबन्ध इति । योगस्य बाधकं निरुपक्रम विशिष्टानुष्ठानचेष्टयाऽप्यनुच्छिद्यमनाश्यस्वविपाकसामर्थ्य वा कर्मैव चारित्रमोहनीयाख्यम् अपायः ॥१७॥ बहुजन्मान्तरकरः सापायस्यैव साश्रवः । अनाश्रवस्त्वेकजन्मा तत्त्वाङ्गव्यवहारतः ॥१८॥ बह्विति । बहुजन्मान्तरकरो=देवमनुष्याद्यनेकजन्मविशेषहेतुर्निरुपक्रमकर्मणोऽवश्यवेदनीयत्वात् । सापायस्यैव अपायवत एव साश्रवो योगः । एकमेव वर्तमानं जन्म यत्र स तु अनाश्रवः । ननु कथमेतद् ? योगिकेवलिगुणस्थानादर्वाक् सर्वसंवराऽभावेनाऽनाश्रवत्वाऽसम्भवादित्यत आह तत्त्वाङ्गं निश्चयप्रापको यो व्यवहार:ततः । तेन साम्परायिककर्मबन्धलक्षणस्यैवाश्रवस्याभ्युपगमात्तदभावे इत्वराश्रवभावेऽपि नाऽनाश्रवयोगक्षतिरिति भावः । तदुक्तं आश्रवो बन्धहेतुत्वाद् बन्ध एवेह यन्मतः । स साम्परायिको मुख्यस्तदेषोऽर्थोऽस्य सङ्गतः ॥ शास्त्रेणेति । अयं च योगो गोत्रयोगिना=गोत्रमात्रेण योगिनाम् असिद्धेः मलिनान्तरात्मतया योगसाध्यफलाभावात् शास्त्रेण योगतन्त्रेण न अधीयते । तथा सिद्धः सामर्थ्ययोगत एव कार्यनिष्पत्तेः निष्पन्नयोगस्य= असङ्गानुष्ठानप्रवाहप्रदर्शनेन सिद्धयोगस्यायं शास्त्रेण नाधीयते । यद् यस्मात् पश्यकस्य स्वत एव विदितवेद्यस्य उद्दिश्यत इति उद्देशः । सदसत्कर्तव्याकर्त्तव्यादेशो नास्ति । यतोऽभिहितमाचारे-'उद्देसो पासगस्स नत्थि त्ति' ॥१९॥ (आचाराङ्गे अध्य. २, श्रु. ३. सू. ८१) कुलप्रवृत्तचक्राणां शास्त्रात्तत्तदुपक्रिया । योगाचार्यैर्विनिर्दिष्टं तल्लक्षणमिदं पुनः ॥२०॥ कुलेति । कुलयोगिनां प्रवृत्तचक्रयोगिनां च शास्त्रा=योगतन्त्रात् सा विचित्रत्वेन प्रसिद्धा उपक्रिया योगसिद्धिरूपा भवति । तदुक्तं योगदृष्टिसमुच्चये (श्लोक-२०९)

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131