Book Title: Saptabhangi Tarangini
Author(s): Vimaldas, Anantacharya
Publisher: Sudarshan Mudrakshar Shala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२
शास्त्रमुक्तावळी । त्तिः, पर्यायार्थत्वेनाश्रयणे परस्परध्यतिकेरे प्येकत्वाध्यारोपा दभेदोपचारः । इति । अभेदवृत्त्यभेदोपचारयोरनाश्रयणे - एकधर्मात्मकवस्तु विषयबोधाजनकं वाक्यं विकलादेशः" । इतिमाहुः ॥
तत्र धर्मान्तराप्रतिषेधकत्वे सति विधिविषयकबोधजनकवाक्यं प्रथमो भङ्गः ) सच स्या दस्त्येव घट इति वचनरूपः । ध. र्मान्तराप्रतिषेधकत्वे सति प्रतिषेधविषयक बोधजनकवाक्यं द्वितीयो भङ्गः । सच स्या नास्त्येव घट इत्याकारः तत्र प्रथमवाक्ये घटशब्दो द्रव्यवाचकः, विशेष्यत्वात् । अस्तीति गुणवाचकः, विशेषणत्वात ।
ननु - घटस्य रूपम् । फलस्य माधुर्यम् । पुष्पस्य गन्धः । जलस्य शैत्यम् । वायोः स्पर्शः । इत्यादौ गुणस्यापि विशेष्यत्वं दृश्यते ; द्रव्यस्यापि विशेषणत्वं ; इति चेत्सत्यम् । तथापि - स मानाधिकरणवाक्ये - नीलमुत्पालं, शुक्लः पटः , सुरभि युः , इत्यादौ द्रव्यवाचकस्यैव विशेष्यत्वं गुणवाचकस्यैव विशेषणत्व मिति नियमात ॥
तत्र स्वरूपादिभि रस्तित्व मिव नास्त्विमपि स्या दित्यनिष्टार्थस्य निवृत्तये स्या दस्त्येवेत्येवकारः । तेनच स्वरूपादिभिरस्तित्वमेव न नास्तित्व मित्यवधार्यते । तदुक्तम् -
"वाक्ये ऽवधारणं ताव दनिष्टानिवृत्तये ।।
कर्तव्य मन्यथा नुक्त समत्वा तस्य कुत्रचित् ॥” इति । ननु नानार्थस्थले गौरवेत्यादौ सत्य प्यवधारणे ऽ निष्टार्थनिवृत्ते रभावात् , गा मानयेत्यादा वसत्य प्यवधारणे प्रकरणादिना निष्टार्थनिवृत्ते भीवाञ्च , नावधारणाधीना 5 न्यनिवृत्तिः । किश्च - अन्यनिवृत्ति कुर्ष नेवकार एवकारान्तर मपेक्षतवा ? नवा ? । आये 5 नवस्थापत्तिः । द्वितीये यथै वकारमयोग एवकारान्तराभावेपि प्रकरणादिना ऽन्यनिवृत्ति लभ्यते । तथा सर्वशब्दप्रयोगपि प्रक
For Private and Personal Use Only

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61