Book Title: Saptabhangi Tarangini
Author(s): Vimaldas, Anantacharya
Publisher: Sudarshan Mudrakshar Shala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सप्तभंगी तरंगिणी। द्वितीये देवदत्तस्यात्मा पचतीति प्रयोगापत्तिः । शरीरविशिष्टात्मापचतीति प्रयोगाभावा तृतीयपक्षेपि नोपपत्तिः । तथाच प्रतिपादितप्रयोगाभावे पूर्वपूर्वप्रयोगाभाव एव शरणम् । तथाच पूर्वपूर्व प्रयोगानुगुण्येन प्रयोगप्रवृत्ते शब्दप्रयोगस्य पर्यनुयोगानहत्वात ।
किश्च-घटादौ वर्तमानः पररूपाभावो घटा द्भिन्नोऽभिन्नोवा? यदि भिन्न स्तस्यापि परत्वा तदभाव स्तत्र कल्पनीयः । अन्यथा तस्य परत्वानुपपत्त्या घटादेः कथंचि दसद्रूपत्वासि । तदभावकल्पनायां चानवस्था , तस्यापि परत्वात् । घटादिषु पररूपस्या तानवितानाकारस्या भावाभावपरिकल्पनायां तेषां घंट-- त्वापत्तिश्च, निषेधद्धयेन प्रकृतरूपसिद्धेः । यद्यभिन्न स्तर्हि सिद्धं स्वस्मा दभिन्न भावधर्मेण घटादौ सत्त्वव दभावधर्मेण तादृशेना सत्त्वमपि स्वीकरणीयमिति ।
ननु - स्वरूण भावएव पररूपेणाभावः , पररूपेणा भावएवच स्वरूपेण भावइति भावाभावयो रेकत्र वस्तुनि भेदाभावा दस्तुनः कुत स्तदुभयात्मकता , इतिचेत ; भावाभावापेक्षणीयस्य निमित्तस्य भेदा. दिति ब्रमः । स्वद्रव्यादिकंहि निमित्त मपेक्ष्य भावप्रत्ययं जनय. त्यर्थः, परद्रव्यादिकंचा भावप्रत्ययं , इत्येकत्वद्वित्वादि संख्याव देकवस्तुनि भावाभावयो भेदः । नोकत्र द्रव्ये द्रव्यान्तर मपेक्ष्य द्वित्वादिसंख्या प्रकाशमाना स्वात्ममात्रापेक्ष्यैकत्वसंख्यातो न्या न प्रतीयते । नाप्येकत्व द्वित्वरूपोभयसंख्या तद्वतो भिन्नैव, द्रव्य स्या संख्येयत्वप्रसंगात् । संख्यासमवाया द्रव्यस्य संख्येयत्व मि. लिनु न , कथंचि तादाम्यव्यतिरेकेण समवायासम्भवात । तस्मा
For Private and Personal Use Only

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61