Book Title: Saptabhangi Tarangini
Author(s): Vimaldas, Anantacharya
Publisher: Sudarshan Mudrakshar Shala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५
सप्तभंगी तरंगिणी। स्वरूपायन्तरं प्रतीयतेवा नवा ? अन्त्ये स्वरूपान्तरं नांगीक्रियतएव । एवमपि तेषा मस्तित्व नास्तित्व व्यवस्था ऽग्रे प्रपञ्चयिष्यते । आधे स्वरूपादीनामपि स्वरूपान्तर मंगीक्रियते , प्रतीत्यनुरोधात् । न. चैव मनवस्था, यत्र स्वरूपाद्यन्तरस्य प्रतीति स्तत्र व्यवस्थोपपत्तेः । तत्र जीवस्य ताव दुपयोगसामान्यं स्वरूपं , सस्य तल्लक्षणत्वात् । ' उपयोगो लक्षण ' मिति वचनात् । तसोऽन्यो ऽनुपयोगः पररूपं । ताभ्यां सदसत्त्वे प्रतीयेते। उपयोगसामान्यस्य च ज्ञानदर्शनान्यतरत्वं स्वरूपम् , इतर पररूपम् । उपयोगविशेवस्य ज्ञानस्य स्वााकारनिश्चयात्मकत्वं स्वरूपम् , दर्शनस्थ किंस्विदित्यादिरूपेणा का. रग्रहणम् स्वरूपम् । ज्ञानस्यापि परोक्षस्या वैशयं स्वरूपं । प्रत्यक्ष स्य वैशचं स्वरूम् । दर्शनस्यापि चक्षुरचक्षुनिमित्तस्य चक्षुरादि जन्यार्थ ग्रहणं स्वरूपं । भवधिदर्शनस्या वधिविषयीभूतार्थ ग्रह णं स्वरूपम् । परोक्षस्यापि मतिज्ञानस्ये द्रियानिन्द्रियजन्यत्वेसति स्वार्थाकारव्यवसायात्मकत्वं स्वरूपम् । भनिन्द्रियमात्रजन्यत्वं श्रुत स्थ स्वरूपम् । प्रत्यक्षस्यापि विकलस्या वधिमनःपर्यायलक्षणस्ये न्द्रियानिन्द्रियानपेक्षत्वेसति स्पष्टतया स्वार्थव्यवसायात्मकत्वं स्वरूपम् । सकलप्रत्यक्षस्य केवलज्ञानलक्षणस्य सकलद्रव्यपर्यायसाक्षात्करणं स्वरूपम् । ततोन्य सत्त्वंतु पररूपम् । ताभ्यां सदप्तत्त्वे प्रतिपत्तव्ये । एव मुत्तरोत्तर विशेषाणामपि स्यरूपपररूपे बुद्धिमा द्भिको । तद्विशेष प्रतिविशेषाणा मनन्तत्वात् । ..ननु-प्रमेयस्य किं स्वरूपं किंवा पररूपम्? याभ्यां प्रमेयं स्यादस्ति स्यानास्तीति व्यपदिश्यतेति चेत् ? उच्यते । प्रमेयस्य प्रमेयावं स्व
For Private and Personal Use Only

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61