Book Title: Saptabhangi Tarangini
Author(s): Vimaldas, Anantacharya
Publisher: Sudarshan Mudrakshar Shala
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शास्त्रमुक्तावळी । प्रतिज्ञामात्रेणा र्थसिद्ध रभावात् । सचहेतुः स्वपक्षस्य साधकः प. रपक्षस्य दूषकश्च । येनरूपेण हेतो स्साधकत्वम् येनच रूपैदषकत्वं न तादृशे रूपे हेतो रत्यन्तभिन्ने , तयो हैं तुधर्मत्वेन हेत्वपेक्षयाकथञ्चि दभिन्नत्वात् । नहिं तयो ३त्वपेक्षया ऽनन्यत्वा थेन रूपेण खा धकत्वम् तेन रूपेण दूषकत्वं च सम्भवतीति संकरः, येन रूपेणसाधकत्वं तेन रूपेण दूषकत्वमेवेति व्यतिकरोवा , साधकत्वदूष. कत्वयो विरोधोवा सम्भवति ; ( १ ) तथा : नेकान्त प्रक्रियाया मपि विरोधादिदोषानवतारः ।
वस्तुतस्तु- अनेकान्तप्रक्रियायां सर्वेषां प्रवादिनामपि प्रतिपत्तिरेव । एकाने कात्मकस्य वस्तुन सर्वसम्मतत्वात् ।
सांख्यास्तावत् - सत्वरजस्तमसा साम्यावस्था प्रधानमित्याहुः । तेषां मते प्रसादलाघव शोषतापवारणादि भिन्नस्वभावाना मनेकात्मना मेकप्रधानात्मकत्व स्वीकारेण कान कात्मकवस्तुतः स्वीकृतत्वात् । ननु प्रधान नामकं वस्तु नास्ति, साम्यावस्था मापन्ना स्सत्व रजस्तमोगुणाएव प्रधानम् , सत्त्वरजस्तमसां समूहे प्रधानपदशक्ते स्वीकारादिति चेन्न तथा प्येकानेकात्मकवस्तुस्वीकारस्था क्षतत्वात् । समुदायसमुदायिनो रभेदा समुदायिनां गुणाना मनेकेषां समुदायस्य चैकस्या भेदाभ्युपगमात् ।
(१) यथै कस्यैव हेतो रेकरूपेण स्वपक्षसाधकत्वं तदन्यरूपेण परपक्षदूषकत्व मित्यंगीकारेपि तादृशहेतौ वर्तमानयोः कथंचि द्भिन्नाभिन्नयो स्तादृशरूपयो स्लंकरो व्यतिकरो. विरोधश्च नसम्भवन्ति , तथैव सत्त्वासत्त्वयो रप्यकत्र वर्तमानयो स्तदभावो निर्वाश्य इति भावः ।
( इतिटिप्पणी)
For Private and Personal Use Only

Page Navigation
1 ... 56 57 58 59 60 61