________________
२९४
मूलाचारे
__इदानीमुत्तरप्रकृतिबंधमाह,पंच णव दोणि अट्ठावीसं चदुरो तहेव वादालं । दोण्णि य पंच य भणिया पयडीओ उत्तरा चेव ॥१८६॥ पंच नव द्वे अष्टाविंशतिः चतस्रः तथैव द्वाचत्वारिंशत् । द्वे च पंच च भणिताः प्रकृतय उत्तराश्चैव ॥ १८६ ॥ टीका-ज्ञानावरणस्य पंच प्रकृतयः, दर्शनावरणस्य नव प्रकृतयः, वेदनीयस्य द्वे प्रकृती, मोहनीयस्याष्टाविंशतिः प्रकृतयः, आयुषश्चतस्रः प्रकृतयः, नाम्नो द्विचत्वारिंशत्प्रकृतयः, गोत्रस्य द्वे प्रकृती, अंतरायस्य पंच प्रकृतयः । अथवा पंचप्रकृतयो ज्ञानावरणमित्येवमादि । इत्येवं नामत्रिनवत्यपेक्षयाऽष्टचत्वारिंशच्छतमुत्तरप्रकृतयो भवंतीति वेदितव्यम् ॥ १८६ ॥
के ते ज्ञानावरणस्य पंच भेदा इत्याशंकायामाह;-- आभिणिबोहियसुदओहीमणपज्जयकेवलाणं च । आवरणं णाणाणं णाव्वं सवभेदाणं ॥ १८७॥ आभिनिबोधिकश्रुतावधिमनःपर्ययकेवलानां च । आवरणं ज्ञानानां ज्ञातव्यं सर्वभेदानां ॥ १८७ ॥ टीका-अभिमुखो नियतो बोध अभिनिबोधः स्थूलवर्तमानांतरिता अर्था अभिमुखाश्चक्षुरिंद्रिये रूपं नियमितं श्रोत्रंद्रिये शब्दः घ्राणेंद्रिये गंधः रसनेंद्रिये रसः स्पर्शनेंद्रिये स्पर्शः नोइंद्रिये दृष्टश्रुतानुभूता नियमिताः, आभिमुखेषु नियमितेष्वर्थेषु यो बोधः स अभिनिबोध अभिनिबोध एवाभिनिबोधकं ज्ञानमत्र विशेषस्य सामान्यरूपत्वात्, आभिनिबोधिकं विशेषेणान्येभ्योऽवच्छेदकमतो न पुनरुक्तदोषः । श्रुतं मतिपूर्वमिंद्रियगृहीतार्थात्पृथग्भूतमर्थग्रहणं यथा घटशब्दात् घटार्थप्रतिपत्तिधूमाच्चान्युपलंभ इति । अवधानादवधिः पुद्गलमर्यादावबोधः । परकीयमनोगतार्थं मन इत्युच्यत