Book Title: Chaturvinshati Jin Stav
Author(s): Jinprabhsuri, Ashokchandravijay
Publisher: Shree Sangh

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रम् , अथ च सौभाग्यशालिनम् , सत्कर्मानुष्ठायकञ्च, “विधिविधाने देवेचे" त्यमरः । शीतलम् = तदाख्यतीर्थक्करम् , गर्भस्थे भगवति पितुः पूर्वोत्पन्नाऽचिकित्स्यदाहस्य जननीहस्तस्पर्शेनोपशान्तरितिभावः । तथा शमाश्रयत्वात्क्रोधादिपरिहाराच्चानुग्रम्, सकलसत्त्वसन्तापाऽपनोदकत्वाच्च शैत्यगुणयुक्तमिव वेत्यर्थः। श्रेयांसम् = तदाख्यतीर्थङ्करम्, गर्भस्थे भगवति केनाऽप्यनाक्रान्तपूर्वदेवताऽधिष्ठितशय्या जनन्याऽऽक्रान्तेति श्रेयो जातमिति नाम्नस्तन्मूलकत्वमिति द्रष्टव्यम्, अथ च श्रेष्ठम् । वासुपूज्यम् = तदाख्यतीर्थकरम् , गर्भस्थेऽस्मिन् वासवो वसुभिः = हिरण्यादिभी राजकुलं पूजितवानिति नाम्नस्तन्मूलकत्वमिति भावः । अथ च विश्वरूपपूज्यम् , विष्णुपूज्यं वा। सुभावतः = सद्भावनापूर्वकम् , अर्चयामि = पूजयामि ॥ ३ ॥ समस्तपदविग्रहः-दिविजबजेन = दिवि जातवन्तो दिविजाः। सप्तम्या अलप, तेषां व्रजः, तेन । असक्तम् = न सक्तोऽसक्तस्तम् । विरोचनाभम् = विरोचनस्यामेवाभा यस्य तम् । जिनेन्द्रम् = जिनेषु जिनानां वा इन्द्र इव तम् । सुविधिम् = सु शोभनो विधि र्यस्य, तम् । श्रेयांसम् = अतिशयेन प्रशस्यः श्रेयान् , तम् । वासुपूज्यम् = वासुना पूज्यस्तम्, वासुश्चासौपूज्यश्च वा तम्, वसुपूज्यनृपतेरय मिति "प्रज्ञाद्याणि" वासुपूज्यस्तं वा । सुभावतः = सु शोभनो भावः मुभावस्तस्मात् ॥ ३ ॥ सुवर्णकान्ते ! विमळ ! स्वमुच्चकै रनन्त ! विज्ञाननिविष्ट ! विष्टपे । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20