Book Title: Chaturvinshati Jin Stav
Author(s): Jinprabhsuri, Ashokchandravijay
Publisher: Shree Sangh

View full book text
Previous | Next

Page 12
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (९) विशिष्टं ज्ञानं यस्य स, तत्सम्बोधने। अनन्तविज्ञाननिविष्टेत्येकपदत्वेन व्याख्याने तु अनन्तं च तद्विज्ञानं च तत्र निविष्टेति विग्रहः। पथप्रकाशने = पथस्य प्रकाशनं तत्र । धर्मपथप्रकाशने इत्येकपदत्वे तु धर्मस्य पन्थाःपथो वा धर्मपथम् तस्य प्रकाशने तत्र। अहमणे! =अह प्रकाशकत्वान्मणिरिव, स, तत्सम्बोधने। विमल != विगत मलं यस्मात्स तादृशस्तत्सम्बोधने । अनन्त ! = न अन्तः, अविद्यमानः अन्तो वा यस्य स तादृशस्तत्सम्बोधने । घान्ते ! = शम्यादिति कत्तर्याशिषि संज्ञायाम् क्तिः, तत्सम्बोधने ॥ ४ ॥ मूलम् निःसीम ! सूरतनय ! स्थितिमार्गदर्शिन् ! . निर्माहि शर्म सुदृशां प्रिय ! मुक्तिदार!। निर्मुष्टगारुडरुचे ! निगृहीतमोह ! मल्लेश ! मोदितमहाशय ! सुव्रतेन!॥५॥ वसन्ततिलका अन्वय:- स्थितिमार्गदर्शिन् ! सुदृशां प्रिय ! मुक्तिद ! निगृहीतमोह ! मोदितमहाशय ! इन ! सूरतनय ! अर! मल्लेश ! निमृष्टगारुडरुचे ! सुव्रत ! निःसीमशर्म निर्माहि ॥ ५ ॥ विवृतिः-स्थितिमार्गदर्शिन् ! = विधिनिषेधादिमर्यादापथप्रदर्शक! | सुदृशाम् = सम्यग्दृष्टीनां भव्यानाम्-प्रिय-प्रीतिविषय! यद्वासुदृशामित्यस्य शर्मेत्यनेनान्वयः । मुक्तिद! = मोक्षदायक! प्रवचनादिना मोक्षमार्गप्रदर्शनेन कृत्वेतिभावः। निग्रहीतमोह ! = परित्यक्तदारागारादिममत्वबुद्धे ! वीतरागत्वादिति भावः । “ अनित्यधनदेहादौ नित्यत्वेन ममेति च । अज्ञानेनाऽऽवृता बुद्धिर्मोह इत्यभिधीयते।" इति योगशास्त्रे । मोदिवमहाशय ! = हर्षितोदारचेतः! यद्वा मोदित ! इति For Private And Personal Use Only

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20