Page #1
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री जिनप्रभसूरि-कविवर-विरचितश्रीचतुर्विंशतिजिनस्तवः।
Hoicl0dolibood
aaaaaaaad Tapmapor Vaaaaaaaaaa Todpappadaनवना VaaaaaaaaaaaaaYAN
विवृतिकार-मुनिश्री चन्द्रोदयविजयजी.
For Private And Personal Use Only
Page #2
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
144
अर्ह नमः |
श्री जिनप्रभसूरि - कविवर - विरचित
श्रीचतुर्विंशतिजिनस्तवः ।
तदुपरि -
शासनसम्राट् आचार्यदेव श्रीमद् विजय नेमिसूरीश्वरपट्टालंकाराचार्यदेव श्रीविजय विज्ञानसूरीश्वरपट्टालंकाराचार्यश्रीविजय कस्तूरसूरीश्वरविनेयाणु मुनिश्री चन्द्रोदयविजयगुम्फितविवृत्तिसमलंकृतः ।
श्री
आ. श्री. कैलाससागर हरि ज्ञान मंदिर श्री महार आहो
सा
संपादक - मुनिश्री अशोक चंद्र विजयः ।
एतत् पुनाश्रीसंघार्पित सद्द्रव्येन प्रकाशितम् ।
*
For Private And Personal Use Only
AL
KAKE
Page #3
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मुद्रक : भाऊ लक्ष्मणराव कोकाटे,
हनुमान छापखाना, ३०० सदाशिव पेठ, पुणे २.
प्रकाशक - प्राप्तिस्थान मास्तर जसवंतलाल गीरधरलाल ११५ तिलक मार्ग, अमदाबाद १.
श्रीगोडीजी पार्श्वनाथ जैन टेम्पल ट्रस्ट. १११ वेताल पेठ, पुना २ महाराष्ट्र.
वि. सं. २०१३
प्रतयः १०००
वी. सं. २४८३
For Private And Personal Use Only
Page #4
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ॐ अई नमः। शासनसम्राट् विजयनेमिसूरीश्वरसद्गुरुभ्यो नमः । श्री जिनप्रभसूरि-कविवर-विरचितश्रीचतुर्विंशतिजिनस्तवः।
मुनिश्रीचन्द्रोदयविजयकृत_ विवृतिसमलङ्कृतः।
मूलम् जिनर्षभ ! प्रीणितभव्यसार्थ !
.. समस्तदोषाजित ! तीर्थनाथ । श्रीशम्भवाऽऽखण्डलवन्ध ! नन्याः स्वामिन् ! प्रजानामभिनन्दन ! त्वम् ॥१॥ उपजातिः
अथ विवृतिमङ्गलम् । सुरासुरैन्दितपादपङ्कजं सदा दयारक्षितजन्तुसञ्चयम् । समस्तकल्याणसुरावनीरुहं नमामि तीर्थशमहं हृदाऽऽदिमम् ॥१॥
श्रीनेमिसूरिचरणाम्बुजयुग्ममन्तराधाय पूज्यचरणं शमिसार्थमुख्यम् । विज्ञानसरिमथ भक्तिभरैःप्रणम्य कस्तूरसूरिमिह गौरगुणं गुरुं स्वम् ॥२॥ श्रीनाभिजन्ममुखवीरवरान्ततीर्थराजां स्तुति भवभयोन्मथनप्रवीणाम् । चन्द्रोदयो मुनिरहं विवृणोमि तेषां प्रीत्यै सताञ्च सुखबोधकृते सयत्नः।।३।।
For Private And Personal Use Only
Page #5
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(२)
अन्वय:- प्रीणितभव्यसार्थ ! समस्तदोष! तीर्थनाथ ! आखण्डलवन्ध ! प्रजानां स्वामिन् ! जिनर्षभ ! अजित ! श्रीशम्भव ! अभिनन्दन! त्वं नन्द्याः ॥१॥
विवृति:-प्रीणितभव्यसार्थ = हे प्रसादितप्राणिसङ्घ ! अहिंसादिपञ्चमहाव्रतादिदेशनया सर्वजन्तूनां प्रमोदोत्पत्तेरिति भावः । समस्तदोष! = परित्यक्तरागादिनिखिलदूषण ! यद्वा - समस्त ! इति दोषाजित ! इति च भिन्नपदेनापि व्याख्यानम् । तथाच - समस्त ! = सम्पूर्ण !, जलरत्नादिभिः समुद्र इव ज्ञानदर्शनचारित्रादिभिः समृत इत्यर्थः दोषाजित! रागादिदोषानभिभूत ! ज्ञानादिना रागादिसकलदोषाणां दूरीकरणात्ते एव पराजिताः, न तु स्वयं तैरभिभूतः, स्वस्मिन् तेषां सत्त्वकथाया अप्यभावादिति सुष्ठुक्तं दोषाजित ! इति । तीर्थनाथाभवसागरसन्तरणसाधनीभूतप्रवचनाधारचतुर्विधसङ्घाधिप । आखण्डलवन्ध! =इन्द्राभिवादनीय! । “इन्द्रो हरिश्च्यवनोऽच्युताग्रजो वनी विडोजा मघवान् पुरन्दरः। प्राचीनबर्हिः पुरुहूतवासवौ सङ्क्रन्दनाऽऽ खण्डलमेघवाहनाः ॥” इत्यभिधानचिन्तामाणिः (२-८५)। प्रजानां जनानाम्" "लोको जनः प्रजा" इत्यभि० (३-१६५)। स्वामिन्! = ईश ! तस्य वीतरागत्वेन यद्यपि कस्यापीशितृत्वं न सम्भवति, तथापि परमकारुणिकतया भवबन्धभिन्मार्गोपदर्शनेनाऽनुगृहीतै जनै भक्तिप्रवणतया एवमुच्यते इतिभावः। जिनर्षभः = जिनश्रेष्ठ!। यद्वा-जिन इति ऋषभ इति च पृथक्पदं सम्बोधनम् । तथा च-जिन ! = रागद्वेघमोहादिजेतृपुङ्गव!, ऋषभ ! = तदाख्यतीर्थकर!, उर्वोर्वृषभलान्छनसत्त्वाज्जनन्या चतुर्दशानां स्वाप्नानामादौ वृषभदर्शनाद्वेतिभावः । अजित ! = तदाख्यद्वितीयतीर्थकर !, श्लिष्टव्याख्यानेन परिषहादिभि
For Private And Personal Use Only
Page #6
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
(३)
रनभिभूत इति ध्वनिः । अस्मिन्नजिते गर्भस्थे द्यूतादिक्रीडायां राज्ञाऽ स्य जननी न जितेत्यनुसन्धानेन पित्रा गृहीताऽजितनामक । इति च । श्रीशम्भव ! = तदाख्यतृतीयतीर्थङ्कर ! श्रीयुक्तेऽस्मिन् स्तुते शं शुभं भवतीति व्याख्यानेन च श्रीशुभकारक इति ध्वनिः । अभिनन्दन ! = तदाख्यचतुर्थतीर्थङ्कर !, गर्भात्प्रभृत्येवाभीक्ष्णं शक्रेणाभिनन्दनादिति भावः, हर्षप्रद | इति ध्वनिः । त्वं नन्द्याः = अभिवर्धस्व, अस्य प्रकृते सर्वत्राऽन्वय: ॥ १ ॥
समस्तपदविग्रहः --- प्रीणितभव्य सार्थ! - भव्यानां सार्थः स प्रीणितो येन सः, तत्सबुद्धौ । समस्तदोष! = समस्ता दोषा येन सः, तत्सम्बोधने | दोषाजित ! = इतिच्छेदे तु = दोषैरजितः, तदामन्त्रणे । तीर्थनाथ ! = तीर्थेषु नाथः, तदामन्त्रणे । तीर्थानां नाथ इति षष्ठीसमासस्तु शेषषष्ट्या, न तु निर्धारणषष्ठ्या, तया समासनिषेधानुशासनात् । जिनर्षभ | = जिनेषु जिनानां वा ऋषभ इति पूर्ववत्समासः । जिनश्वासौ ऋषभश्चेति कर्मधारयो वा तदामन्त्रणे । अजित ! = न जितः, तदामन्त्रणे । समस्तदोषाजित ! इत्येकसंबोधनत्वेन व्याख्याने समस्ताः सकलाश्च ते दोषाश्च, तैरजितः, तत्सम्बोधने । श्रीशम्भव ! = श्रीयुतः शम्भवः, तदामन्त्रणे । श्लोकत्रयं यावदुपजातिश्छन्दः ॥ १ ॥
●
।
मूलम् सुखाय पुंसां सुमते ! मुखं ते
Acharya Shri Kailassagarsuri Gyanmandir
मृगाङ्क ! पद्मप्रभ ! गौरकान्ते ! |
सुपार्श्व ! नेतर्महसेनपुत्र !
त्रैलोक्यलोकस्तवनीय ! भूयात् ॥ २ ॥ उपजातिः
For Private And Personal Use Only
Page #7
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(४)
अन्वयः- नेतः ! त्रैलोक्यलोकस्तवनीय ! सुमते ! मृगाङ्क ! गौरकान्ते ! पद्मप्रभ ! सुपार्श्व ! महसेनपुत्र ! ते मुखं पुंसां सुखाय भूयात् ॥ २ ॥
विवृतिः- नेत: ! = नायक !, अप्रणीरित्यर्थः । यो घमणीभवति, स स्वानुगतान् कृत्याकृत्ये उपदिशति, अकृत्यपरिहारेण च कृत्ये एव प्रवर्तयति, स्वयं च तत्र प्रवर्तते, तद्वज्जिनोऽपि जनानिति सष्ठूक्तं नेतरिति । त्रैलोक्यलोकस्तवनीय ! = त्रिभुवनजनस्तुत्य !, अन्ये हि कतिभिरेव, अयं तु त्रिभुवनजनैरिति व्यतिरेकध्वनिः, यद्वा यो हि त्रिभुवनजनानां हितचिन्तकः, सत्पथप्रवर्तयिता, निःस्पृहश्व, स एव तैः स्तुत्यः। वीतरागतया परमकारुणिकतया चायमेव तथा नान्य इति त्रैलोक्यलोकस्तवनीयेत्युचितमेव । यद्वा त्रैलोक्यलोक! इति स्तवनीय ! इति च पृथक्सम्बोधनम् । तथा च त्रैलोक्यं लोकतेऽबलोकते सकलज्ञानावरणीयकर्मक्षयजन्यकेवलज्ञानेनेति स तत्सम्बोधने, सर्वज्ञ! इत्यर्थः । स्तवनीय ! = स्तुतियोग्य ! न तु स्तोतुं शक्य!, गुणानामसमत्वादिति ध्वनिः । सुमते ! = तदाख्यतीर्थङ्कर !, सद्बुद्धे ! इतिध्वनिः । मिथ्यात्वगन्धस्याप्यभावाद्, उपदेशादिना जनानां तन्नाशकत्वाञ्चेति भावः । मृगाङ्क ! = हरिणलाञ्छन ! श्री शांतिनाथेत्यर्थः । यद्वा मृगाकश्चन्द्रः, नामैकदेशेनामग्रहणाच्चंद्रप्रभेत्यर्थः । गर्भस्थे भगवति मातुश्चंद्रपानदोहदभावात्तदाख्यतीर्थङ्करेत्यर्थः ! महसेनपुत्र ! = महसेनाऽऽख्यनरवरसुत !, श्रीचन्द्रप्रभेत्यर्थः । गौरकान्ते ! = विशदशरीरच्छवे ! पद्मप्रभ ! = तदाख्यतीर्थंकर !, कमलतुल्यकान्ते ! इति ध्वनिः । सुपार्थ = तदाख्यतीर्थकर ! गर्भस्थे भगवति जनन्याः सुपार्श्वभावादिति भावः।
For Private And Personal Use Only
Page #8
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शोभनकक्षाधोभाग इति, शोभनसमीपप्रदेश इति, शोभनफणिचक्र इति च ध्वनिः । ते = तव । मुखं = वदनम् । पुंसाम् = पुरुषाणाम्, उपलक्षणत्वात्प्राणिनामित्यर्थः । सुखाय = शाताय भूयात् ॥ २॥ - समस्तपदविग्रह:-त्रैलोक्यलोकस्तवनीय ! = त्रयाणां लोकानां समाहारस्त्रिलोकी, सैव त्रैलोक्यम् , तत्र तस्य वा लोकास्त्रैलोक्यलोकाः, तैः स्तवनीयः, तत्सम्बोधने । सुमते! -सु शोभना बुद्धि यस्य स, तत्सम्बोधने । महसेनपुत्र ! = महसेनस्य पुत्रः, तत्सम्बोधने । मृगाङ्क ! = मृगोऽको यस्य स, तत्सम्बोधने । गौरकान्ते ! = गौरीकान्ति र्यस्य स, तत्सम्बोधने। पद्मप्रभ! = पद्मस्य प्रमेव प्रभा यस्य स तत्सम्बोधने । सुपार्श्व ! = सु शोमनौ पाचौं यस्य, शोभनो वा पार्थो यस्य स, तत्सम्बोधने ॥ २॥
मुखम् .. विरोचनाभं सुविधि जिनेन्द्र
सुभावतः शीतलमर्चयामि । श्रेयांसमय दिविजव्रजेनाs
सक्तं न सम्पत्सु न वासुपूज्यम् ॥३॥ उपजातिः अन्वयः-- दिविजवजेन अच्यं सम्पत्सु न न असक्तम् विरोचनाभ जिनेन्द्रं सुविधिं शीतलं श्रेयांसं वासुपूज्यं सुभावतः अर्चयामि ॥३॥
विवृति :-दिविजबजेन = देववृन्देन। अय॑म् = पूज्यम् । सम्पत्सु = क्षणिकपर्यन्तदुःखदलौकिकसमृद्धिषु, न न असक्तम् = अत्यन्तविरक्तम् , नन्द्वयप्रयोगस्य प्रकृतार्थदायसूचकत्वात् । विरोचनाभम् = सूर्यसमानकान्तिम् , " द्युमणिस्तरणिमित्रश्चित्रभानुर्विरोचन" इत्यमरः । जिनेन्द्रम् = जिनपतिम् । सुविधिम् = तदाख्यतीर्थङ्क
For Private And Personal Use Only
Page #9
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रम् , अथ च सौभाग्यशालिनम् , सत्कर्मानुष्ठायकञ्च, “विधिविधाने देवेचे" त्यमरः । शीतलम् = तदाख्यतीर्थक्करम् , गर्भस्थे भगवति पितुः पूर्वोत्पन्नाऽचिकित्स्यदाहस्य जननीहस्तस्पर्शेनोपशान्तरितिभावः । तथा शमाश्रयत्वात्क्रोधादिपरिहाराच्चानुग्रम्, सकलसत्त्वसन्तापाऽपनोदकत्वाच्च शैत्यगुणयुक्तमिव वेत्यर्थः। श्रेयांसम् = तदाख्यतीर्थङ्करम्, गर्भस्थे भगवति केनाऽप्यनाक्रान्तपूर्वदेवताऽधिष्ठितशय्या जनन्याऽऽक्रान्तेति श्रेयो जातमिति नाम्नस्तन्मूलकत्वमिति द्रष्टव्यम्, अथ च श्रेष्ठम् । वासुपूज्यम् = तदाख्यतीर्थकरम् , गर्भस्थेऽस्मिन् वासवो वसुभिः = हिरण्यादिभी राजकुलं पूजितवानिति नाम्नस्तन्मूलकत्वमिति भावः । अथ च विश्वरूपपूज्यम् , विष्णुपूज्यं वा। सुभावतः = सद्भावनापूर्वकम् , अर्चयामि = पूजयामि ॥ ३ ॥
समस्तपदविग्रहः-दिविजबजेन = दिवि जातवन्तो दिविजाः। सप्तम्या अलप, तेषां व्रजः, तेन । असक्तम् = न सक्तोऽसक्तस्तम् । विरोचनाभम् = विरोचनस्यामेवाभा यस्य तम् । जिनेन्द्रम् = जिनेषु जिनानां वा इन्द्र इव तम् । सुविधिम् = सु शोभनो विधि र्यस्य, तम् । श्रेयांसम् = अतिशयेन प्रशस्यः श्रेयान् , तम् । वासुपूज्यम् = वासुना पूज्यस्तम्, वासुश्चासौपूज्यश्च वा तम्, वसुपूज्यनृपतेरय मिति "प्रज्ञाद्याणि" वासुपूज्यस्तं वा । सुभावतः = सु शोभनो भावः मुभावस्तस्मात् ॥ ३ ॥
सुवर्णकान्ते ! विमळ ! स्वमुच्चकै
रनन्त ! विज्ञाननिविष्ट ! विष्टपे ।
For Private And Personal Use Only
Page #10
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(७) अहर्मणे ! धर्म ! पथप्रकाशने
कुरुष्व शान्ते ! हितमङ्गिनां पदम् ॥४॥ वंशस्थवृत्तम् अन्वयः- सुवर्णकान्ते ! विज्ञाननिविष्ट ! पथप्रकाशने अहमणे ! विमल ! अनन्त ! धर्म ! शान्ते ! अङ्गिनां पदं त्वं विष्टपे उच्चकैर्हितं कुरुष्व ॥ ४ ॥
विवृति:- सुवर्णकान्ते ! = कनकच्छवे ! शोभनरूपप्रभ वा। विज्ञाननिविष्ट ! = तत्वज्ञाननिपुण ! अनन्तज्ञाननिविष्ट ! इति वा, केवलज्ञानरूपामेयविशिष्टज्ञानपरिनिष्ठितेत्यर्थः । यद्वा 'विज्ञान !' इति ' निविष्ट !' इति च पृथक्सम्बोधनम् , तथा चविज्ञान ! = विशिष्टज्ञानशालिन् ! तत्त्वज्ञानिन् !, केवलिन्निति वाऽर्थः । निविष्ट ! = चारित्रादिनिष्ठ । । पथप्रकाशने = धर्माधर्मादिमार्गदर्शने, मुक्तिमार्गदर्शने वा, अहर्मणे ! = सूर्यरूप । विमल ! = तदाख्यतीर्थकर । अथ च-मलरहित ! निष्कलङ्क ! निर्दोष ! इति वाऽर्थः । अनन्त ! = तदारव्यतीर्थकर!, अथ च अमेय ! इत्यर्थः । धर्म ! = दुर्गतौ प्रपततां जन्तूनां सन्मार्गोपदेशादिना धारणाद्, गर्भस्थे जिने जनन्या दानादिधर्मपरत्वाद्वा तदाख्यतीर्थङ्कर ! , यद्वा 'धर्मपथप्रकाशने' इत्येकं पदम् , तथा च धर्ममार्गदर्शने इत्यर्थः । शान्ते! = शान्तिकर्तृत्वात् , शान्त्यात्मकत्वाद्वा शान्तियोगात्, गर्भस्थेऽस्मिन् पूर्वोत्पन्नाशिवशान्तिभावाद्वा तदाख्यतीर्थङ्कर ।। अथ च शमाशाविषय इत्यर्थः । आङ्गिना = प्राणिनाम् । पदम् = आश्रयः, स्थानमित्यर्थः । " पदं व्यवसितत्राणस्थानलक्ष्मा िवस्तुष्वि " त्यमरः । त्वम् । विष्टपे = जगति, "विष्टपं भुवनं जगदि" त्यमरः। उच्चकैः = अति
For Private And Personal Use Only
Page #11
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsuri Gyanmandir
(८) शयेन । हितम् = व्याबाधारहितत्वेन कल्याणमयम् । कुरुष्व = जनय, निरजननिराकारशाश्वतानन्दमयं शिवपदं देहीति यावत् । .तथा च विष्टपे = लोकविषये । अङ्गिनाम् = सांसारिकप्राणिनामिति मिलितार्थः । उञ्चकैः- अत्यन्तम् । हितम् = कल्याणकरम् । पदम् = स्थानम्, मोक्षाद्यात्माकमित्यर्थ : । कुरुष्व = विधेहि, देहीति भावः। अङ्गिनोऽतिहितपदभाजः कुर्विति समुदायार्थः। अथवा अङ्गिनां विष्टपे पदम् = संसाराधिकरणकं स्थानम्, सांसारिकत्वमिति यावत् । उच्चकैः- उत्कृष्टम्। हितम् = कल्याणकरं यथास्यात्तथा, न त्वनिष्ट बन्धादिप्रयोजकमिति भावः । कुरुष्व = संसारिणः सांसारिकत्वं कल्याणाय यथा स्यान्नत्वनिष्टबन्धायेत्येवं यतस्वेत्यर्थः । यद्वा अङ्गिनां पदम् = अङ्गित्वम्, शरीरित्वमित्यर्थः । विष्टपे उच्चकैः हितम् = प्रशस्यं हितकरं वा यथा स्यात्तथा कुरुष्व । अङ्गिनामङ्गित्वं स्वहितमुक्तयादिसाधनतया परमोपकारक यथा स्यान्न तु - दुःखायतनतयाऽहितमित्येवं कुरुष्वेति यावत् । यद्वा अङ्गिनामङ्गित्वं सद्धर्माद्याचरणेन प्रशस्य यथा स्यान्नत्वधर्माचरणेन निन्द्यमित्येवं यतस्वेत्यर्थः। यद्वा विष्टपे उच्चकै हितम् = मुक्त्यादिसाधनभूततया परमोपकारकम् । अङ्गिनां पदम् = अङ्गित्वम् , मानुष्यकमिति यावत् कुरुष्व । मनुष्यभवलाभे हि जीवानां मुक्तिलाभसम्भवो न तु भवान्तरेणेति तस्याभिलषणीयतया तस्कुरुष्वेति प्रार्थनम् ॥ ४ ॥ १ . समस्तपदविग्रह:-सुवर्णकान्ते.! = सुवर्णस्य कान्तिरिव कान्तिर्यस्य स तादृशः. यद्वा, वर्णो रूपम्, स च कान्तिः प्रभा च वर्णकान्ती, शोमने वर्णकान्ती यस्य स तादृशस्तत्सम्बोधने। विज्ञाननिविष्ट! = विज्ञाने निविष्ट स्तत्सम्बोधने । विज्ञानेतिपृथक्पदान्वयेन व्याख्याने तु
।
For Private And Personal Use Only
Page #12
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(९) विशिष्टं ज्ञानं यस्य स, तत्सम्बोधने। अनन्तविज्ञाननिविष्टेत्येकपदत्वेन व्याख्याने तु अनन्तं च तद्विज्ञानं च तत्र निविष्टेति विग्रहः। पथप्रकाशने = पथस्य प्रकाशनं तत्र । धर्मपथप्रकाशने इत्येकपदत्वे तु धर्मस्य पन्थाःपथो वा धर्मपथम् तस्य प्रकाशने तत्र। अहमणे! =अह प्रकाशकत्वान्मणिरिव, स, तत्सम्बोधने। विमल != विगत मलं यस्मात्स तादृशस्तत्सम्बोधने । अनन्त ! = न अन्तः, अविद्यमानः अन्तो वा यस्य स तादृशस्तत्सम्बोधने । घान्ते ! = शम्यादिति कत्तर्याशिषि संज्ञायाम् क्तिः, तत्सम्बोधने ॥ ४ ॥
मूलम्
निःसीम ! सूरतनय ! स्थितिमार्गदर्शिन् ! . निर्माहि शर्म सुदृशां प्रिय ! मुक्तिदार!। निर्मुष्टगारुडरुचे ! निगृहीतमोह !
मल्लेश ! मोदितमहाशय ! सुव्रतेन!॥५॥ वसन्ततिलका अन्वय:- स्थितिमार्गदर्शिन् ! सुदृशां प्रिय ! मुक्तिद ! निगृहीतमोह ! मोदितमहाशय ! इन ! सूरतनय ! अर! मल्लेश ! निमृष्टगारुडरुचे ! सुव्रत ! निःसीमशर्म निर्माहि ॥ ५ ॥
विवृतिः-स्थितिमार्गदर्शिन् ! = विधिनिषेधादिमर्यादापथप्रदर्शक! | सुदृशाम् = सम्यग्दृष्टीनां भव्यानाम्-प्रिय-प्रीतिविषय! यद्वासुदृशामित्यस्य शर्मेत्यनेनान्वयः । मुक्तिद! = मोक्षदायक! प्रवचनादिना मोक्षमार्गप्रदर्शनेन कृत्वेतिभावः। निग्रहीतमोह ! = परित्यक्तदारागारादिममत्वबुद्धे ! वीतरागत्वादिति भावः । “ अनित्यधनदेहादौ नित्यत्वेन ममेति च । अज्ञानेनाऽऽवृता बुद्धिर्मोह इत्यभिधीयते।" इति योगशास्त्रे । मोदिवमहाशय ! = हर्षितोदारचेतः! यद्वा मोदित ! इति
For Private And Personal Use Only
Page #13
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१०)
महाशय ! इति च पृथक्पदम् ! तथा च मोदित ! = ज्ञानादिना प्राप्तनित्यानन्द ! | महाशय ! = उदारचेतः ! | इन ! = ईश ! | " ईशितेनो नायकश्चे" त्यभि० ३,२३ । सूरतनय ! = सूराख्यनृपपुत्र ! गर्भस्थेऽस्मिन् जननी रत्नानां कुन्थराशि दृष्टवतीति कुन्थुनाथेत्याख्य इत्यर्थः । अर ! = तदाख्यतीर्थङ्कर ! गर्भस्थेऽस्मिन् जनन्या स्वप्ने सर्वरत्नमयोऽरो दृष्ट इति तदाख्येति भावः । मुक्तिदारेत्येकपदत्वेन व्याख्याने च, मुक्तिः स्ववशत्वाद्दारा इव यस्य स तादृशः । प्रियमुक्तिदारेत्येवमेकपदत्वेन व्याख्याने च प्रिया चतुर्थपुरुषीर्थत्वेनेष्टा मुक्तिः सकलकर्मक्षयः स्ववशत्वाद्दारा इव यस्य स तादृशः । प्रियमुक्तिभार्य ! इत्यर्थः । मल्लेश ! = मल्लिनाथ ! गर्भस्थेऽस्मिन् । मातुः सुरभिकुसुममाल्यशयनीय दोहदो देवताभिः पूरित इति मल्लि:, तथा परिषहादिमल्लजयान्मलिः, स चासौ नाथश्च स मल्लिनाथेत्याख्यतीर्थङ्कर ! । निमृष्टगारुडरुचे ! = संस्कृतमरकतकान्ते ! श्यामवर्ण प्रभ ! इत्यर्थः । " गारुत्मतं मरकतमश्मगर्भो हरिन्मणिरि " त्यमरः । सुव्रत ! = तदाख्यतीर्थङ्कर !, शोभनाऽहिंसादित्रतशालिन्निति चार्थः । सुत्रतेनेत्येकपदत्वेन व्याख्याने तु सुव्रताऽऽन्यस्वामिन् ! स्वयं पाल्यमानत्वादुपदेशकत्वाच्च शोभनाऽहिंसादिव्रतस्वामिन्निति चार्थः । निःसीम = निरवधि । शर्म कल्याणम् । निर्माहि = कुरुष्व ॥ ५ ॥ समस्त पदविग्रहः- स्थितिमार्गदर्शिन् ! = स्थिते मार्गः, तं दर्शयतीत्येवंशीलः स्थितिमार्गदर्शी तत्सम्बोधने । सुदृशाम् = सुसमिचीना हग्येषां ते सुदृश:, तेषाम् । मुक्तिद ! = मुक्तिं ददातीतिस, तत्सम्बोधने । मुक्तिदारेति व्याख्याने च, मुक्तिः दारा इव दारा यस्य स तत्सम्बोधने । प्रियमुक्तिदारेत्येवं सम्बोधने तु - प्रिया मुक्तिरेव
I
For Private And Personal Use Only
Page #14
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(११) दारा यस्य स तादृशस्तत्सम्बोधने। निग्रहीतमोह ! = निगृहीतो मोहो येन स तादृशस्तत्सम्बोधने । मोदितमहाशय ! = मोदितो महाशयो येन स तादृशस्तत्सम्बोधने । सूरतनय ! = सूरस्य तनयः, तत्सम्बोधने । मल्लेश ! = मल्लश्चासौ ईशश्च, तत्सम्बोधने । निर्मुष्ट-- गारुडरुचे ! = निर्मुष्टश्चासौ गारुडश्च; निमृष्टगारुडः, तस्य रुचिरिव रुचिर्यस्य स तादृशस्तत्सम्बोधने । सुव्रत ! = सुशोभनानि व्रतानि यस्य स तादृशस्तत्सम्बोधने। सुव्रतेनेत्येवं सम्बोधने तु सुव्रतश्चासाविनश्य, तत्सम्बोधने । निःसीम = सीम्नो निष्कान्तं निःसीम, तत् ॥ ५॥
अघो! नमीनाऽङ्कनिरासदक्ष !
सम्प्रीणिताऽशेष ! समुद्र ! नेमे !। शान्तार ! वामेय ! गुणामिराम !
श्रीवर्धमानधि सुखश्रिये नः ॥ ६ ॥ उपजातिः अन्वयः- अघो! अङ्कनिरासदक्ष ! सम्प्रीणिताऽशेष ! समुद्र !' गुखाभिराम ! शान्तार ! नमीन ! नेमे ! वामेय ! श्रीवर्धमान ! नः सुखश्रिये एधि ॥ ६ ॥
विवृति:- अघो ! = अघोस् इति सम्बोधनार्थमव्ययम् । अङ्कनिरासदक्ष ! = दोषदूरीकरणसमर्थ !। सम्प्रीणिताऽशेष ! = सद्ध
र्मोपदेशादिना हर्षितसमस्तलोक!। समुद्र ! = वृषभादिलान्छनलाञ्छित! अपरिग्रहादिमुनिवेषादियुक्त! कायोत्सर्गलक्षणमुद्रायुक्त ! इति वाऽर्थः । गुणाभिराम ! = दयादिभिः प्रसिद्धैः पञ्चत्रिंशत्सल्यकैर्वाम्गुणैः, चतुस्त्रिंशदतिशयैश्च मनोज्ञ!। शान्तार! = मुक्तत्वा
For Private And Personal Use Only
Page #15
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
. (१२) दुपरताऽवसर्पिण्युत्सर्पिणीकालचक्रविवर्त्तनैकान्तसुषमादिद्वादशविधकालकृतोपाधे !, कालातीत ! इत्यर्थः । यद्वा शान्त ! = शमाश्रय ! अर ! = तदात्यतीर्थङ्कर ! । नमीन ! = नमिनाथ ! गर्भस्थेऽस्मिन् परचक्रनृपैरपि प्रणतिः कृतेति नमिः, स चासाविनश्चेति भावः, तदात्यतीर्थङ्कर । इत्यर्थः। अघोनमीनेत्यत्र " अवर्ण" (१। ३ । २२। सि. है . ) इत्यादिना संधिः । यद्वा-अघोन! मीनाङ्कनिरासदक्ष ! इत्येवं पदरचना, तथा च - अघोन ! = पापरहित ! निर्मलेत्यर्थः । असत्यादिरूपदुरितहेतुसम्पर्कशून्येति यावत् । "कलुषं वृजिनैनोऽधमहोदुरितदुष्कृतमि" त्यमरः । मीनाङ्कनिरासदक्ष ! = कामदूरीकरणकुशल ! ब्रह्मचर्यव्रतधारित्वादिति भावः। नेमे ! = तदाख्यतीर्थकर ! धर्मचक्रस्य नेमिवन्नेमे ! धर्मचक्रप्रधितुल्येत्यर्थः। वामेय ! = वामानामराज्ञीपुत्र ! श्रीपार्श्वनाथेत्यर्थः । श्रीवर्धमान! = श्रीमन्महावीर ! नः = स्तुवतामस्माकं जनानाम् । सुखश्रिये = सुखसम्पदे, " शोभासम्पत्तिपद्मासु लक्ष्मीः श्रीरिवदृश्यते" इत्यमरः । एधि = भव ॥ ६॥ - समस्तपदविग्रहः-नमीन! = नमिश्वासाविनश्च स तत्सम्बोधने। अङ्कनिरासदक्ष! = अङ्कस्य निरासस्तत्रदक्षः, तत्सम्बोधने । पक्षान्तरे, -अघोन!= अधैरूनः, तत्सम्बोधने।मीनाङ्कनिरासदक्ष! = मीनोऽको यस्य स मीनाकः, तस्य निरासस्तत्र दक्षः, तदामन्त्रणे । सम्प्रीणिता:शेष! = सम्प्रीणिता अशेषा येन स तादृशः, तत्सम्बोधने । समुद्र ! = मुद्रया सह वर्तते इति समुद्रस्तदामन्त्रणे । गुणाभिराम!= गुणैरभिरामः तत्सम्बोधने । शान्तार ! = शान्ता भरा यस्य स तादृशस्तत्सम्बोधने । पामेय वामाया अपत्यं पुमान् वामेयः, तदामन्त्रणे। श्रीवर्धमान!=
For Private And Personal Use Only
Page #16
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१३)
वर्धतामिति वर्धमानः कर्त्तर्याशिषि संज्ञायामानश् । श्रियायुक्तो वर्धमानः, तत्सम्बोधने । सुखश्रिये = सुखस्य श्रीस्तस्यै ॥ ६ ॥ मूलम्
निर्व्याज मेधिततमोहरणै कदक्षे !
=
सर्वज्ञरा जिमहनीयपदे ! नयाद्ये ! |
सार्वोदिवे ! भव सरस्वति ! पोतरूपे !
मिथ्यात्ववारिणि सदा मयि सुप्रसन्ना ||७|| वसन्ततिलका अन्वयः -- निर्व्याजम् एतितमोहरणैकदक्षे ! सर्वज्ञराजिमहनी - यपदे । मिथ्यात्ववारिणि पोतरूपे ! नया ! सार्वोदिते । सरस्वति ! मयि सदा सुप्रसन्ना भव ॥ ७ ॥
1
विवृतिः - निर्व्याजम् = निष्कपटं यथास्यात्तथा, निःशेषरूपेणेतिभावः । एधिततमोहरणैकदक्षे ! = समृद्धाज्ञानविनाशनाऽ द्वितीय कौशल्यशालिनि ! सर्वज्ञराजिमहनीयपदे ! = केवलिसमुदायपूज्यचरणे, केवलिसमुदायपूज्यवर्णसमूहे, इति चार्थः । मिथ्यात्ववारिणि = मिथ्यात्वरूपे सलिले । पोतरूपे ! = महानौकायमाने ! तया पोतेन सलिलमिव मिथ्यात्वं तीर्त्वा सम्यक्त्व लाभादिति भावः । यद्वा पोतरूपे इति सप्तम्यन्तं पदं मयीत्यनेन अभेदेनान्वेति तथा च मिथ्यात्ववारिणीति न सप्तम्यन्तं, किंतु सम्बोधनम् । मिथ्यात्वनाशजनिके ! इति चार्थः । नयाद्ये ! = नयप्रधाने | प्राथम्येन वा नैगमा दिनयादि प्रतिपादिके ! इत्यर्थः । सार्वोदिते! = सर्वज्ञवाग्रूपे ! | सरस्वति! = वाणि! श्रुतदेवि ! इत्यर्थः । यद्वा-नयाद्ये, सार्वोदिते सर्वज्ञवानूपे आगमरूपे, सरस्वति सागरे, “ सारस्वान् सागरो ऽर्णवः" इत्यमरः । माये स्तोतृजने, पोतरूपे इत्यस्य सप्तम्यन्तत्वेन व्याख्यानपक्षे
1
For Private And Personal Use Only
-
Page #17
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पोतरूपे = शिशुतुल्ये, मयीत्यर्थः । “पोतःपाकोऽर्भको डिम्भः पृथुकः शावकः शिशु" रित्यमरः । सदा सुप्रसन्ना भव = तव प्रसादादेव तत्त्वज्ञान सम्भवः, नान्यथेतिभावः । यद्वा-सरस्वति ! निर्व्याजमेधिततमोहरणकदक्षे सर्वज्ञराजि महनीयपदे मिथ्यात्ववारके नयाधे सर्वज्ञवाग्रूपे आगमे विषये, बालतुल्ये मयीत्येवमर्थः ॥ ७ ॥
समस्तपदविग्रहः- निर्व्याजम् = व्याजान्निर्गतं यथास्यात्तथा, एधिततमोहरणकदक्षे! = एधितं च तत्तमश्च, एधिततमः, तस्य हरणम्, तत्र, एका चासौ दक्षा च, तत्सम्बोधने। सर्वज्ञराजिमहनीयपदे - सर्वज्ञानां राजयः, तासु महनीयौ पदौ यस्याः, महनीयानि पदानिया त्याद्यन्तरूपाणि यस्याः सा तादृशी, तत्सम्बोधने । नयाये! = नयः आद्यः यस्याः सा तादृशी, तत्सम्बोधने । सार्वोदिते ! = सर्व जानन्तीति सार्वाः तैरुदिता, तत्सम्बोधने । सरस्वति ! = सरः अस्ति अस्मिन्निति सरस्वान् , तस्मिन् ॥ ७॥
मूलम् एवं श्रीवृषभादयो जिनवराः श्रीवर्धमानान्तिमाः
सान्द्रानन्दमखण्डखण्डितपदैताश्चतुर्विंशतिः। प्रज्ञोल्लासिलसज्जितप्रभविव्यावर्ण्यमानोदया। भूयासुर्मयि सुप्रसन्नहृदयास्त्रैलोक्यलक्ष्मीश्वराः॥८॥
शार्दूलविक्रीडितम् - अन्वय :- एवं प्रज्ञोल्लासिलसज्जिनप्रमकविव्यावर्ण्यमानोदयाः त्रैलोक्यलक्ष्मीश्वराः श्रीवृषभादयः श्रीवर्धमानान्तिमाः चतुर्विंशतिजनवराः अखण्डखण्डितपदैः सान्द्रानन्दं नूताः मयि सुप्रसन्नहृदया भूयासुः ॥ ८॥
For Private And Personal Use Only
Page #18
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विवृति :- एवम् = पूर्वोक्त प्रकारेण । प्रज्ञोल्लासिलसज्जिनप्रमकविव्यावीमानोदयाः = नवनवोन्मेषशालिप्रतिभाप्रकाशशीलशोभमानजिनप्रभाभिधबुधसम्यकीय॑मानाऽभ्युदयाः। त्रैलोक्यलक्ष्मीश्वराः = त्रिभुवनलक्ष्मीपतयः । श्रीवृषभादयः = श्रीयुतवृषभदेवप्रभृतयः। श्रीवर्धमानान्तिमाः = श्रीमहावीरस्वामिपर्यन्ताः। चतुर्विशतिः चतुर्विशतिसङ्ख्याकाः। जिनवरा: = जिनश्रेष्ठाः, तीर्थङ्करा इत्यर्थः । अखण्डखण्डितपदैः= अभङ्गर्षभाऽभिनन्दनादिसभङ्गाऽजितशम्भवादिशब्दैः । सान्द्रानन्दम् =स्निग्धहर्षम्, गाढानन्दपूर्वकमिति यावत् । सातिशयप्रीतिपूर्वकमिति भावः । नूताः = स्तुता, सन्तः, यद्यपि धातुपाठे “नु" इति-हस्वत्वविशिष्टः पाठः, तथापि" परिणत गुणोदयः" इत्यादिवत्समाधानीयम् । मयि = स्तोतरि भव्यजने । सुप्रसन्नहृदया: सम्यक्प्रसन्नमनसः। भूयासु- भवन्तु, स्तुतेः स्तोतव्यप्रसाद एवोपयोगादितिभावः ॥ ८ ॥
समस्तपदविग्रहः-प्रज्ञोल्लासिलसज्जिनप्रभकविव्यावर्ण्यमानो दया: = प्रज्ञयोल्लसतीत्येवंशीलः प्रज्ञोल्लासी, स चासौ लसंश्च प्रज्ञोल्लसिलसन्, जिनप्रभश्चासौ कविश्च निनप्रभकविः, प्रज्ञोल्लासिलसंश्वासौ जिनप्रभकविश्व, तेन व्यावर्ण्यमान उदयो येषां ते, अथवा प्रज्ञाल्लासिलसन्तश्च ते जिनप्रभकविव्यावर्ण्यमानोदयाश्च, ते तादृशाः। त्रैलोक्यलक्ष्मीश्वराः = त्रैलोक्यस्य लक्ष्भ्यः, तासामीश्वराः । श्रीकृषभादयः = श्रीयुतश्च ते वृषभ आदिर्येषां ते तादृशाः । यद्वा-श्रीयुतो वृषभः श्रीवृषभः, स आदिर्येषां ते तादृशाः। श्रीवर्धमानान्तिमाः = अन्ते भवोऽन्तिमः, श्रीयुतो वर्धमानोऽन्तिमो येषां ते तादृशाः । चतुविशतिः = चतुराधिका विंशतिः। जिनवराः = जयन्ति कामादीन
For Private And Personal Use Only
Page #19
--------------------------------------------------------------------------
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(१६) रीनिति जिनाः तेषु तेषां वा वराः। अखण्डखण्डितपदैः = अविद्यमानः खण्डो येषु तानि, अखण्डानि च तान्यमूनि खण्डः सब्जातोऽनेति खण्डितानि च अखण्डखण्डितानि, तानि च तानि पदानि च तैः । सान्द्रानन्दम् = सान्द्र आनन्दो यत्र नवने कर्मणि तद्यथा स्यात्तथा ॥ ८॥ समाप्तेयं विवृतिः ॥
आबालब्रह्मचर्यप्रथितगुरुयशःश्रीलनेमेः सुपट्टाऽ
__ लद्वाराऽऽचारभारव्रतिततिविदितज्ञानविज्ञानमरेः। पट्टोलासिप्रभावाऽगणितगुणगणख्यातकस्तूरसूरेः
शिष्यश्चन्द्रोदयोऽहं स्तुतिविवृतिमिमां तत्प्रसादादकार्षम् ॥१॥ अमुष्यां मे कृत्यां स्खलनमिव यातः क्वचिदपि
त्रुटिः काचिद्भायाद्धमतनुजनुश्चेद्बुधवरैः । विशोध्योदारान्तःकरणविदितैः सत्त्वमहितः, __ सतां सत्त्वं यद् धीः सपदि सुसमाधेरवसरे ॥२॥ स्तम्भाख्ये तीर्थवर्ये मुनिखखनयनैः (२००७) सम्मिते विक्रमाब्दे
चातुर्मास्याधिवासे धवलदलयुते चाश्चिने भानुतिथ्याम् । वारे चन्द्रे समाप्ता स्तुतिविवृतिरियं धीमतो मोदहेतु -
जीयादाचन्द्रसूर्यं स्वगुरुकरपयोजन्मयुग्मेऽर्पणेन ॥ ३ ॥
For Private And Personal Use Only
Page #20
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री नेमिविज्ञान ग्रन्थमालानां प्रकाशनो. कलिकाल सर्वज्ञ श्रीहेमचन्द्राचार्य विरचित अभिधान चिंतामणि कोशआचार्य श्रीविजय कस्तूरसूरीश्वर रचित चन्द्रोदयाभिधगुर्जरभाषानुवादसमेत. आचार्य श्रीविजय कस्तूरसूरीश्वर रचित-- "पाईअ विन्नाण कहा।" For Private And Personal Use Only