Book Title: Chaturvinshati Jin Stav
Author(s): Jinprabhsuri, Ashokchandravijay
Publisher: Shree Sangh

View full book text
Previous | Next

Page 17
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पोतरूपे = शिशुतुल्ये, मयीत्यर्थः । “पोतःपाकोऽर्भको डिम्भः पृथुकः शावकः शिशु" रित्यमरः । सदा सुप्रसन्ना भव = तव प्रसादादेव तत्त्वज्ञान सम्भवः, नान्यथेतिभावः । यद्वा-सरस्वति ! निर्व्याजमेधिततमोहरणकदक्षे सर्वज्ञराजि महनीयपदे मिथ्यात्ववारके नयाधे सर्वज्ञवाग्रूपे आगमे विषये, बालतुल्ये मयीत्येवमर्थः ॥ ७ ॥ समस्तपदविग्रहः- निर्व्याजम् = व्याजान्निर्गतं यथास्यात्तथा, एधिततमोहरणकदक्षे! = एधितं च तत्तमश्च, एधिततमः, तस्य हरणम्, तत्र, एका चासौ दक्षा च, तत्सम्बोधने। सर्वज्ञराजिमहनीयपदे - सर्वज्ञानां राजयः, तासु महनीयौ पदौ यस्याः, महनीयानि पदानिया त्याद्यन्तरूपाणि यस्याः सा तादृशी, तत्सम्बोधने । नयाये! = नयः आद्यः यस्याः सा तादृशी, तत्सम्बोधने । सार्वोदिते ! = सर्व जानन्तीति सार्वाः तैरुदिता, तत्सम्बोधने । सरस्वति ! = सरः अस्ति अस्मिन्निति सरस्वान् , तस्मिन् ॥ ७॥ मूलम् एवं श्रीवृषभादयो जिनवराः श्रीवर्धमानान्तिमाः सान्द्रानन्दमखण्डखण्डितपदैताश्चतुर्विंशतिः। प्रज्ञोल्लासिलसज्जितप्रभविव्यावर्ण्यमानोदया। भूयासुर्मयि सुप्रसन्नहृदयास्त्रैलोक्यलक्ष्मीश्वराः॥८॥ शार्दूलविक्रीडितम् - अन्वय :- एवं प्रज्ञोल्लासिलसज्जिनप्रमकविव्यावर्ण्यमानोदयाः त्रैलोक्यलक्ष्मीश्वराः श्रीवृषभादयः श्रीवर्धमानान्तिमाः चतुर्विंशतिजनवराः अखण्डखण्डितपदैः सान्द्रानन्दं नूताः मयि सुप्रसन्नहृदया भूयासुः ॥ ८॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 15 16 17 18 19 20