Book Title: Smruti Tattvasya Part 02 Author(s): Raghunandan Bhattacharya Publisher: Jivanand Vidyasagar View full book textPage 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम् । त्रिस्पृशैकादशी चैव दशम्या संयुता सदा । नोपोष्या तासु संक्षेपोदशमी नियमास्तथा । एकादश्याञ्च सङ्कल्पः श्रीशपूजाविवेचनम् । षट्त्रिंशदुपचारादिजपपर्वनिरूपणम् । द्वादशीनियमस्तद्ददुपवाससमर्पणम् । पारणायास्तथा कालः सङ्कटे जलपारणम् । तुलसीमहिमा तत्र तथा रुद्राक्षधारणम् । स्वदत्तदेवनैवेद्याद्युपयोगः स्त्रिया स्तथा । श्राद्धपिण्डादनन्तत्र कूपादित्यागयागता । त्यक्तुस्तत्रोपयोगश्च रजः सुतकि नोर्व्रतम् । उपवासानुकल्पश्च तथैवोहव्यवस्थितिः । एकभक्तं तथा नक्त' हृविष्यद्रव्यनिर्णयः । विनधान्यस्य भचत्वं प्रातिनिध्यविवे चनम् । चान्द्रायणादौ ग्रासानां परिसंख्याव्यवस्थितिः । पारस यानियमः पानेत्वपामनशनाशनम् । व्यवस्था शयनादीनां संकथ्यन्ते जगत्पतेः । अथ एकादशीव्रतम् । तत्र वराहपुराणम् । 'एकादश्यां निराहारो यो भुङ्क्ते दादशीदिने । शुक्ले वा यदि वा कृष्णे तदुद्व्रतं वैष्णवं महत्' । महत्त्वमाह । 'यदीच्छेहिष्णुना वासं पुत्त्रसस्पदमात्मनः। एकादश्यां न भुञ्जीत पचयोरुभयोरपि' | एतद्दिन् सुघोराणि हन्ति पापानि पार्थिव। योग्टहीत्वा व्रतं मोहादेकादशौदिने नरः । न समापयते तस्य गति: पापीयसौ भवेत् । अत्र 'एकादश्यां प्रकुर्वन्ति उपवासं मनीषिणः । इति भविष्यपुराणे उपवासप्रदान्निराहारपदं नैकादशौकाल मात्राभोजनपरम् । किन्तु तद्युक्ता होरात्राभोजनपरम् । तत्रैवोपवासपदव्यवहारात् । न च वैपरीत्यम् । उपवासपदस्याहाराभावमात्रपरत्व े लचणाप्रसङ्गात् । निराहारपदस्योपवासपरत्व े तु न लक्षणा सामान्यशास्त्रस्य विशेषतात्पय्यैकत्वात् । तथाच कात्यायनः । 'नित्योपवासी यो मर्त्यः सायं प्रातर्भुजिक्रियाम् । सन्त्यजेन्मतिमान् विप्रः संप्राप्ते हरि For Private and Personal Use OnlyPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 694