Book Title: Smruti Tattvasya Part 02
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम्। लक्षितः। काले विकल्पते सर्वं ब्रह्माण्डं सचराचरम् । पुखपापविभागेन फलं देवी प्रयच्छति। एकधापि कृतं तस्मिन् कोटि कोटिगुणं भवेत्। धर्माद्विवईते यायूराज्य पुत्रसुखादि च। अधर्मायाधिशोकादिविषुवायनसनिधी। विधु: वेषु च यहत्तं जप्तं भवति चाक्षयम्। एवं विष्णुपदे चैव षड़शौतिमुखेषु च'। भोगोव्याप्तिः सूक्ष्मसंक्रमणकालसन्नि. धाने पुण्यतमत्वमिति यावदिति कल्पतरूः। वस्तुतस्तु भुज्यत इति भोगोभोग्यः रविसंक्रमणे। अतीतानागत: कालोभोग्यस्तनिमित्तपुण्य पापजननयोग्य इति यावत्। अत. एव 'पुण्यपापविभागेन फलमिल्य पसहृतम्। यत्तु 'अईरात्र व्यतीते तु संक्रान्तिर्यदहर्भवेत् । पूर्व व्रतादिकं कुर्यात् परेयुः स्नानदानयोः' इति तत् 'उपोथैव च संक्रान्त्यां वात्वा योऽभ्यर्चयेद्रविम् । स्नातः पञ्चोपचारेण सकामफलमान यात् । इति भीमपराक्रमौयैकवाक्यतया परदिवसीयखानदाननिमित्तकं प्राग्दिनोपवाससंयमरूपव्रतादिपरम्। अन्यथा प्रागुताविरोधापत्तेः। स कालः कियानित्याह। नाड्यः पञ्चदशति उभयतः पञ्चदशदण्ड पुण्यत्व दिवा विष्णुपदौविषयमिति तिथितत्वे वक्ष्यते। सान्निध्यमित्यादिना तस्यैव कालस्य स्तुतिः। विकल्पते स्वभावात् प्रचवते। देवी संक्रान्तिकालस्वरूप संक्रान्त्य पक्रमे देवीपुराण एव। 'समायनमृतु. सः पक्षोहश्च क्रमेण तु । स्थूलसूक्ष्मविभाजन देवी सर्वगताविभो' इत्यभिधानात्। 'कलाकाष्ठादिरूपेण परिणामंप्रदायिनी' इति मार्कण्डेयपुराणाच। तस्मादमावास्यायां हरितमपि न छिन्यादित्यादेनिषेधविधित्वेन कलञ्जभक्षणन्यायात यावत् कालभावित्वं निराहारस्य तु वैधोपवासरूपत्वात् व्रतरूपत्वाच न तदवसरः तयोर्भावघटितत्वात् । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 694