Book Title: Smruti Tattvasya Part 02
Author(s): Raghunandan Bhattacharya
Publisher: Jivanand Vidyasagar

View full book text
Previous | Next

Page 14
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम् । अथ व्रतलक्षणम्। दीर्घकालानुपालनीयः सङ्कल्पोव्रत. मिति नारायणोपाध्यायानां स्वरसः। स्वकर्त्तव्य विषयो. नियतः सङ्कल्पोव्रतमिति श्रीदत्तहरिनाथवईमानप्रभृतयः । सङ्कल्पश्च भावे मयैतत् कर्त्तव्यमेव निषेधे न कर्त्तव्यमिति ज्ञानविशेषः अतएव सङ्कल्पः कर्ममानसमित्याभिधानिकाः । वस्तुतस्तु पूर्वोक्तवराहपुराणवचनेनैकादश्युपवासस्य व्रतत्वाभिधानात्। 'एकभक्तोन नक्तेन तथैवायाचितेन च। उपवासेन चैकेन पादकच्छ उदाहृतः'। इत्यादि याज्ञावल्कवाद्युक्तेषु एकमतनक्तायाचितभोजनोपवासादिषु पादकच्छादित्वाभिधानाच न सङ्कल्पोव्रतं किन्तु सङ्कल्पविषयतत्तत्कर्मैव व्रतमिति। अतएव व्रतानां सङ्कल्पसम्भवत्वमाह मनुः । 'सङ्कल्पमूल: कामो वै यज्ञाः सङ्कल्पसम्भवाः । व्रतानियमधर्माश सर्वे सङ्कल्पजाः स्मृताः'। अनेन कर्मणा इदमिष्टं फलं साध्यते इत्येवं विषया बुद्धिः सङ्कल्पस्तदनन्तरमिष्टसाधनतया अवगते तस्मिन् इच्छा जायते ततस्तदर्थ प्रयत्न कुर्वीत इत्येवं यज्ञाः सङ्कल्पसम्भवाः । व्रता नियमरूपा धर्माश्चतुर्थाध्याये वक्ष्यमाणाः । सर्वे इत्यनेन अन्येऽपि शास्त्रार्थाः सङ्कल्पादेव जायन्त इति कुल्लू कभट्टः । सङ्कल्पमाह वराहपुराणम् । 'प्रात:सङ्कल्पयेदिहानुपवासव्रतादिकम् । नापराहे न मध्याले पित्रा. कालौ हि तौ स्मृती' सङ्कल्यो व्रतस्यारम्भ इत्युक्तं राघवभट्ट तोविष्णुः। 'व्रतयज्ञविवाहेषु श्राद्धे होमेऽर्चने जपे। आरब्ध सूतकं न स्यादनारब्ध तु सूतकम्। आरम्भोवरणं यज्ञे सङ्कल्पोव्रतजापयोः। नान्दीश्राद्धं विवाहादौ श्राद्धे पाकपरिष्क्रिया। निमन्त्रणन्तु वा श्राद्धे प्रारम्भः स्यादिति श्रुतिः'। पाकपरिष्क्रियेति साग्नेदर्शश्राद्धविषयं तत्रैव तस्याग्न्य वरणविधानेन तदग्निपाकस्यासाधारणत्वात्। सङ्कल्प For Private and Personal Use Only

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 694