Book Title: Praman Paribhasha
Author(s): Dharmsuri, Nyayvijay
Publisher: Harashchand Bhurabhai

View full book text
Previous | Next

Page 9
________________ तारिकाया: ( ३ ) " प्रमाणे च प्रमेये च बालानां बुद्धिसिद्धये । किञ्चिद् वचनचातुर्यं चापलायेयमादधे" ॥१॥ इति स्वसंवादसिद्धप्रत्यक्षगोचर श्लेषानुप्रासादिनैकविचित्ररचनासमुपस्कृतस्वल्पेतरविकल्पजल्पकलापसंकलित निसर्गगभीरतत्तत्तपनबन्धुमतानुपातिप्रभृतिवावदूकवा दिवादचर्चागहनतया मध्यमबुद्धिभिरप्यसुप्रवेशत्वाभिसन्धेः । श्रीमन्मल्लिषेणसूरीश्वरविहितायाः स्याद्वादमञ्जर्य्याः मावादुकमवादप्रकटनप्रतिविधानप्रगुणां भगवत्स्तुतिमनुपातुकायाः दार्शनिक विषयवादसङ्ग्रहरूपत्वेन प्रमाणपरिभाषापद्धतिराहित्यप्रतीतेश्चाऽमीभ्यः प्रकृतार्था सिद्ध्यभिप्रायेण एतद्ग्रन्थनिर्माणायासस्य सुपयोगित्वसिद्धेः । सुंप्रत्येमि, चोद्घोषयन्ति च नैकेऽभिरूपा सञ्चारयन्तो निपुणनयनपथे उचितविस्तरेण जैनन्यायनिरूपणनिपुणिम्ना चकासतमिमं ग्रन्थं समूलचूलं सुविचारं पठितारः परिष्कृतबुद्धिविभवीभवन्तः कथं न स्युराकरसम्पदासादन सौभाग्यभाजनतया ? | १ वस्तुतः पुन: स्वेनैव स्वकृतेर्विकत्थनविधेः कौतस्कुती सङ्गतिः ? किं प्रच्छन्नतया भविष्यति लसत् कस्तूरिकासौरभम् ? ।

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 236