Book Title: Praman Paribhasha
Author(s): Dharmsuri, Nyayvijay
Publisher: Harashchand Bhurabhai

View full book text
Previous | Next

Page 7
________________ प्रस्तावना। एष व्यधिकशतसूत्रात्मा परिच्छेदपञ्चकपर्याप्तः प्रमाणपरिभाषानामा नव्यो निबन्धो लघीयानपि समासतः प्रमाणपरिभाषाविधानपटिम्ना गरिमाणं भेजानः किमीयचतुरचेतश्चमत्कर्तुमचतुरः स्यात् । ___ इमां च प्रमाणपरिभाषां प्रणेतारः सकलशास्त्रापतिहतपतिभाषौढिम्ना, प्रतिवादिप्रतिसिद्धान्तव्यालपलायनकलागुरुत्वेन, बङ्ग-मरु-गूर्जरादिदेशेषग्रपादविहारेण मनोहारिण्या ध्वनिपद्धत्या दध्राणत्वेन मनुजमनोगतदुर्वासनादुर्भिक्षोत्क्षेपपरिक्षमपरमार्थसदुपदेशपयोधाराधाराधरायमाणतां शारदपर्वेन्दुदीधितिधवलदुश्चरचरिताचरणचारिम्णा काशीक्षेत्रप्रभृतिप्रतिस्पर्धनप्रज्ञालमण्डलस्थलेष्वपि स्वाभिरामशासनप्रतिष्ठापननिष्पतिमप्रभावमालभारिभाषेन, भक्तिभारावनम्रकन्धरधराधीशधोरणीशिरोमुकुटमणिकिरणगणघनरसपरिधौतचरणारविन्दरूपेण च सर्वतः प्रसिद्धि प्रपेदानाः श्रीमत्पादाः शास्त्रविशारदजैनाचार्यश्रीविजयधर्मसूरयो दिनकरवदुलूकानां केषाञ्चिदेव नाम चेतसि न समचारिषुः। एतेषां च जीवनप्रवृत्तिं गूर्जरभाषायां हिन्दीभाषायां बङ्गभाषायां सिंहलभाषायां आङ्गलभाषायां इटालियनभाषायां जमे

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 236