Book Title: Praman Paribhasha
Author(s): Dharmsuri, Nyayvijay
Publisher: Harashchand Bhurabhai

View full book text
Previous | Next

Page 8
________________ ( २ ) नभाषायां संस्कृतभाषायां च तत्तत्तदीयदुःशकस्तवगणस्तोममकरन्दरसास्वादमधुव्रतायमानतया स्वतः समुद्भुतसमुत्साहसन्दोहतः ततद्देशवास्तव्य लब्धाक्षरमहाशयैः सुनिबद्धत्वेन सर्वत्र प्रसिद्धत्वात् नात्राऽप्रथयसि प्रस्तावे समुत्सहे लेशेनाऽप्युल्लिखितम् । अत्र च सूत्रेषु तद्गुरुचरणोपजीवी एषोऽहं 'न्यायालङ्कार' नाम्नीं टीकामेतां यथाविद्यं प्राणेशि | अत्रत्यं च विषयस्वरूपं पुरतः प्रादुष्कृतविषयानुक्रमतः शक्नुवन्ति परिचेतुं विपश्चित इति कोऽर्थस्तदुपदर्शनेनेह गौरवं प्रापयितुं लेखम् । न चात्रार्हन्ति मनागपि संन्देग्धुं विदग्धहृदयाः, यदुत सत्स्वपि प्रमाणमीमांसा - रत्नाकरावतारिका स्याद्वादमञ्जरीप्रभृतिप्रकटोत्कटविशङ्कटजैनन्यायशास्त्रेषु आकरग्रन्थसमूहव्यतिरिक्तेषु किंफल एष आयासः ? इति । कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यैः प्रणीतायास्तद्ग्रन्थान्तरसाधारणनिसर्गमधुरसन्दर्भायाः प्रमाणमीमांसाया अल्पभागस्य मुद्रितत्वादिना प्रसिद्धेः पूर्णरूपेण प्राप्यत्वसन्देहात, सति च पूर्णरूपतया प्राप्यत्वप्रत्ययेऽपि सौलभ्यविरहेण परिशेषभागस्थविषयंस्वरूपाऽप्ररिज्ञातेः । पूज्यपाद श्रीरत्नप्रभसूरिभी रचितायाः स्याद्वादरत्नाकराव

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 236