Book Title: Praman Paribhasha
Author(s): Dharmsuri, Nyayvijay
Publisher: Harashchand Bhurabhai

View full book text
Previous | Next

Page 16
________________ प्रमाणपरिभाषा कचिदभीष्टे वस्तुनि प्रचर्तमाना अभीष्टदेवताप्रणिपातपुरस्सरं प्रवर्त्तन्त इति चेत् । कुत एतदज्ञासी: । मङ्गलं तिरोऽकार्षीदाचार्य इति ग्रन्थादौ तदनिर्देशादिति चेत् । व्यभिचारादयमहेतुः, न हि मङ्गलव्यापित्वं तन्निर्देशस्य येन तदनुपलम्भात् तदभावावधारणं न्याय्यं स्यात् , तदभावेऽपि मनः-कायाभ्यां मङ्गलस्यावस्थानात् । अथवा 'प्रमाणपरिभाषा' इति प्रमाणपदाभिधानेन परममङ्गलभूतं परब्रह्मस्वरूपं केवलज्ञानात्मकं प्रमाणं परिभावयति भगवति ग्रन्थकृति कुतः शिष्टाचारव्यतिक्रमारेकालवोऽपि । अपिच, अथशब्दस्य माङ्गलिकत्वेन सूत्रे तस्याधिकारार्थस्यापि श्रवणमन्यार्थनीयमानकुसुमदाम-सलिलकलशादेर्दशनमिव मङ्गलायाऽपि कल्पत इति पश्यतो नाऽपरितोषकारणं परिपश्याम आयुष्मत इति ; सति च मङ्गले परिपन्थिप्रत्यूहमतिघातादंक्षेपेण शास्त्रसिद्धिरिति युक्तस्तदादर इति । ननु 'अधिकारार्थोऽथशब्दः' इत्युक्तम् , तत्र कोऽधिकारः। उच्यते-अधिकारः प्रस्तावः, तथा चैतच्छास्त्रेण प्रस्तूयमानस्य प्रमाणस्योपदेशो भावीति समवगतशास्त्राभिधेयाः प्रेक्षावन्तः प्रचिमार्गमुपदार्शता भवन्ति । प्रमाणं चार्थसिद्धिसाधकतमं सम्यगज्ञानम् , यन्निबन्धना हि लौकिका अलौकिकाश्च सर्वे व्यवहारा उपपत्तिपदवीमाविशन्ति, अतस्तदवश्यं जिज्ञासितव्यम् । तज्ज्ञानमेव चानेन शास्त्रेण साक्षात्प्रयोजनं श्रोतुः, ग्रन्थकर्तुस्तु बालोपकारः, द्वयोरपि परम्परं प्रमाणतस्तत्त्वाधिगमद्वारेण श्रेयःपथसमारोहे क्रमतः परमानन्दसिद्धिरेवेति प्रयोजनसंसूचनादनेन सूत्रेण निष्पयोजनत्वशङ्काऽनुत्थानोपहतैव । सम्बन्धोऽप्युपायोपेयलक्षणः सामर्थ्यादवगतो भवति- प्रमाणाधिगमो ह्युपेयम् , तदुपायश्चैतच्छास्त्रम्, अभिधेयं तु साक्षादभिधत्त एतत्सूत्रम् तथाहिपरिमिता भाषा परिभाषा, भाषा भाषणमुपदेशश्चेत्यनर्थान्तरम् , तथाच सझेपत उपदेशः परिभाषापदार्थः, स च प्रमाणस्य, इति

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 236