Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 423
________________ कण्डिका] परिशिष्टम् । देवता अनुष्टुप्छन्दः जलादुत्क्रमणे वि० । उदुत्यमिति प्रस्कण्वत्राषिः सूर्यो देवता गायत्रीछन्दः दक्षिणहोमे वि०। चित्रंदेवानामिति कुत्स आङ्गिरस ऋषिः सूर्यो देवता त्रिष्टुप्छन्दः दक्षिणहोमे वि०॥ तचक्षुरिति ध्यड्डाथर्वणऋषिः सूर्यो देवता एकाधिकाब्राह्मीत्रिष्टुप् व्यूहेनात्यष्टिवी छन्दः महावीरशान्तिकरणे वि० इत्यभिधाय उद्वयमुदुत्यं चित्रं तच्चक्षुरित्येताभित्रग्भिः सूर्यमुपस्थाय, तेजोऽसीति यजुः परमेष्ठी प्रजापतित्राषि: आज्यंदेवता आज्यावेक्षणे गायत्र्यावाहने वि० इत्युक्त्वा गायत्र्यस्येकपदी द्विपदी त्रिपदी चतुष्पद्यपदसि नहिपद्यसे नमस्ते तुरीयाय दर्शताय पदाय परोरजसे सावदोमा प्रापदिति गायत्रीमुपस्थाय, प्रणवस्य परब्रह्मऋषिः परमात्मादेवता गायत्री छन्दः व्याहृतीनाम् प्रजापतिर्कषिः अग्निवायुसूर्या देवता दैवानि गायत्र्युष्णिग्गायत्रीसंज्ञानि छन्दांसि गायच्या विश्वामित्रऋषिः सवितादेवता गायत्रीछन्दः अग्निर्मुखं ब्रह्माहृदयं विष्णुः शरीरं सांख्यायनगोत्रं सर्वपापक्षयार्थे जपे वि० इत्युक्त्वाऽर्कमीक्षमाणो मन्त्रार्थमनुस्मरन् अविक्षिप्तचित्तः स्फटिकपद्माक्षरुद्राक्षपुत्रजीवकुशप्रन्थिहस्तपर्वणां पूर्वपूर्वाभावे उत्तरोत्तरया जपमालया प्रणवव्याहृतिपूर्वा प्रणवान्तां गायत्री सहस्रकृत्वः शतकृत्वो वा शक्तितो जपित्वा विभ्राडित्यादीनाचतुर्दशानां विभ्राद्प्रस्कण्वागस्त्यश्रुतकक्षसुकक्षप्रस्कण्वकुत्सजमदग्मिनुमेधकुत्सहिरण्यस्तूपाङ्गिरसा ऋषयः सूर्योदेवता प्रथमा जगती आद्यास्तिस्रो गायत्र्य: आनत्रिष्टुप् यदद्येति वृहद्गायत्री तरणिर्विश्वतत्सूर्यस्य द्वे त्रिष्टुभौ वण्महां द्वे बृहतीसतोवृहत्यौ प्रायन्त बृहती अद्या देवागायत्री आकृष्णेन त्रिष्टुप् तम्प्रनथेति प्रतीकोक्तानां द्वयोः प्रजापतित्रषिस्तृतीयायाः कुत्सः प्रथमाजगती द्वितीयातृतीये त्रिष्टुभौ सर्वमेधे सूर्यसंस्तवे तृतीये हविर्गहणे. वि० । सहस्रशीर्षेति षोडशानां नारायणपुरुष ऋषिः पुरुषो देवता पञ्चदशानामनुष्टुम् षोडश्यास्त्रिष्टुप्छन्दः पुरुषमेधे पशुत्वेन नियुक्तानाम् पुरुषाणां ब्रह्मणा प्रयुक्ताभिष्टवे वि०। यजायत इति षण्णां शिवसङ्कल्पऋषिः मनो देवता त्रिष्टुप् छन्दः अनारभ्याधीतत्वात्कात्यायनवचनाच आदित्योपस्थाने वि० । मण्डलबाह्मणस्य ब्राह्मणत्वादच्छन्दस्कस्यादित्योपस्थाने वि० । इत्यभिधाय विधाडित्यनुवाकपुरुषसूक्तशिवसङ्कल्पमण्डलबाह्मणैरुपांशु पठित्वा सूर्यमुपस्थाय प्रदक्षिणीकृत्य नम. स्कृत्योपविशेदिति स्मृत्यन्तरोक्तसमुच्चयेन कात्यायनसूत्रविहितं मध्याह्नसंध्योपासनम् । केवलकात्यायनसूत्रविहितं तु प्राणायामाञ्जलिप्रक्षेपादित्योपस्थानं त्रिकण्डिकासूत्रमात्रानुसारिणां शास्त्रार्थानुष्ठानमात्रकरणम् । बह्वल्पं वा स्वगृह्योक्तं यस्य यावत्प्रकीर्तितम् । तस्य तावति शास्त्रार्थे कृते सर्वः कृतो भवेत् इतिस्मृतेः । अथ ब्रह्मयज्ञं कुर्यात् । आसनोपरि न्यस्तेषु प्रागग्रेपु दर्भेषु प्राङ्मुख उपविष्टः पाणिभ्यां दर्भानादाय इषेत्वेत्यादिकस्य खं ब्रह्मान्तस्य माध्यन्दिनीयस्य वाजसनेयकस्य यजुर्वेदाम्नायस्य विवस्वानृषिः वायुर्देवता गायत्र्यादीनि सर्वाणि छन्दांसि ब्रह्मयज्ञे वि० । इत्यभिधाय प्रणवं व्याहृतीर्गायत्रीमानायस्वरेणाधीत्य इषेत्वोर्गत्वेत्यादितो वेदमारभ्यानुवाकशोऽध्यायशो यजुषो वा संहितां ब्राह्मणं चाध्यायशोब्राह्मणशो वा प्रणवावसानं यथाशक्ति प्रत्यहमधीयानो मन्त्रं ब्राह्मणं च समाप्य पुनरेवमेवारभ्य समापयेत् । प्रणवव्याहृतिगायत्रीपूर्वकं तु प्रतिदिनं पठेत् । एवमितिहासपुराणादीन्यपि ब्रह्मयज्ञसिद्धये जपेत् । तत्राप्याध्यात्मिकी जपेदिति योगीश्वरेण पृथगभिधानात् । अत्रानध्यायो नास्ति । नास्ति नित्येष्वनध्याय इति वचनात् , नित्यश्च ब्रह्मयज्ञः। इति ब्रह्मयज्ञविधिः ॥*। ततस्तर्पयेद्ब्रह्माणं पूर्व विष्णुठ रुद्रं प्रजापति देवांश्छन्दासि वेदानपीन् पुराणाचार्यान् गन्धर्वानितराचार्यान्त्संवत्सरं च सावयवं देवीरप्सरसो देवानुगान्नागान्सागरान्पर्वतान्सरितो मनुष्यान् यक्षान रक्षासि पिशाचान्सु

Loading...

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560