Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 518
________________ ५१२ पारस्करगृह्यसूत्रम। [श्राद्धसूत्र(श्राद्धका० )-इत्यं पार्वणैकोद्दिष्टसपिण्डनश्राद्धेप्वप्रदक्षिणादिधर्मानुपदिश्येदानी स्त्रीकृतत्वेन तद्विपरीतप्रदक्षिणादिधर्मान्प्रतिपिपादयिपुराभ्युदयिकश्राद्धमारभते ' आभ्युदयिक प्रदक्षिणमुपचारः' अभ्युदयो वृद्धिः इत्यनान्तरम् । अग्न्याधानाभिपेकादाविष्टापूर्ते स्त्रिया ऋतौ । वृद्धिश्राद्धं प्रकुर्वीत आश्रमग्रहणे तथेति वृद्धगार्ग्यवचनात् । आदिगन्दः पुत्रजन्मविवाहाद्यर्थः । तथा च स एव-पुत्रोत्पत्तिप्रतिष्ठासु तन्मासीत्यागबन्धने । चूड़ायां च विवाहेपु वृद्धिश्राद्धं विधीयते । इति । ननु च नान्दीमुखं कर्माकं चेति संज्ञामदात्कथमाभ्युदयिक वृद्धिश्राद्धमिति । उच्यते-वृद्धिश्राद्धमेव नान्दीमुग्वमिति, संनाभेदः प्रयोगविशेषणार्थः । तथा च वृद्धवसिष्ठःपुत्रजन्मविवाहादौ वृद्धिश्राद्धमुदाहृतम् । तत्र नान्दीमुखमिति विशेषः समुदाहृत इति । यत्तु कर्माङ्गमिति संज्ञान्तरं तदपि वृद्धिधर्मातिदेशन तद्रूपमेव संज्ञामदेऽपीत्यविरोषः । तथा च पारस्करः-निपेककाले सोमे च सीमन्तोन्नयने तथा । क्षेयं पुंसवने श्राद्ध कर्माचं वृद्धिवत्कृतम् । लौगाक्षिरपि-नामानचौलगोदानसोमोपनयपुंसवे । स्नानदानविवाहेपु नान्दीश्राद्धं विधीयते इति । अत्राभ्युदयिक इति वदता मातृस्थापनाद्यङ्गेपु प्रागुदक्संस्थतैवोक्ता दैविक्रत्वादिति गम्यते । अतएव प्राङ्मुखस्य कर्तुरुदक्संस्थतायामप्रादक्षिण्यमपि स्यादित्याहुः । तत्रापि प्रादक्षिण्यमेवेत्युदड्मुखस्यैव कर्तृत्वमित्यन्ये । अवानूचानाः प्रमाणम् । अत्रैतञ्चिन्त्यते-किं वृद्धिश्राद्धं दिनत्रये कार्यमुतैकदिन एवेति । तत्रैक आहुः-एकस्मिन्कर्माह एवेति । मातृभ्यः प्रथमं दद्यापितृभ्यस्तदनन्तरम् । ततो मातामहेभ्यश्च वृद्धौ श्राद्धत्रयं स्मृतम् । इति वचनादिति । तद्युक्तम् । अस्यापि त्रिदिनविधायकत्वप्रतिभानात् । तथा च स्मृतिः-मातृश्राद्धं तु पूर्वेद्यः कर्माहत्येव पैतृकम् । मातामह्यं चोत्तरेयुर्वृद्धौ श्राद्धत्रयं भवेत् । वसिष्ठोऽपि-पूर्वेद्युर्मातृकं श्राद्ध कर्माहे पैतृकं तथा । उत्तरेयुः प्रकुर्वीत मातामहगणस्य विति । नन्वेकदिनकरणं दिनत्रयाशक्तौ कर्माहे वेदितव्यमिति चेत् तदपि न । तत्रापि पूर्वेयुरेव विहितत्वात् । तथा च-पृथग्दिनेष्वशक्तश्चेदेकस्मिन्पूर्ववासरे । श्राद्धत्रयं प्रकुर्वीत वैश्वदेवं तु तांत्रिकमिति । तान्त्रिकमित्येकदिने विशिष्टविधिः । वृद्धमनुरपि-अलामे भिन्नकालानां नान्दीश्राद्धत्रयं बुधैः। पूर्वेयुरेव कर्तव्यं पूर्वाहे मातृपूर्वकमिति । यत्त्वेकदिन एवात्राचरन्ति तद्वचनादर्शननिबन्धनमित्यवधेयम् । जातकर्मादिविपयं वेत्यविरोधः । पठन्ति च-पुंसवने च सीमन्ते अन्नचौलोपनायने । गोदाने स्नान उद्वाहे नान्दीश्राद्धं पुरोहितम् । इति । अतश्चाविहितेपु पूर्वेधुरेवेति । तत्राकृत्वा मातृयागं तु यः श्राद्धं परिवेषयेत् । तस्य क्रोधसमाविष्टा हिंसामिच्छन्ति मातरः । इत्यादिवचनान्मातृपूजनस्य श्राद्धे पूर्वभागित्वात्तत्पूजने विरुद्धानीव वाक्यानि दृश्यन्ते । तत्र परिशिष्टम्-गौरी पद्मा शची मेधा सावित्री विजया जया । देवसेना स्वधा स्वाहा मातरो लोकमातरः । धृतिः पुष्टिस्तथा तुष्टिरात्मदेवतया सह । गणेशेनाधिका ह्येता वृद्धौ पूज्याश्चतुर्दशेति । चतुर्विंशतिमते तु-ब्रह्माण्याद्यास्तथा सप्त दुर्गाक्षेत्रगणाधिपाः । वृद्धौ वृद्धौ सदा पूज्याः पश्चान्नान्दीमुखान्पितन् । ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा । वाराही च तथैन्द्री च चामुण्डा देवमातरः । तिस्रः पूज्याः पितुः पक्षे तिस्रो मातामहे तथा । इत्येता मातरः प्रोक्ता पितृवसावमीति(?) । अत्र यथाशाखं यथाजातिकुलं वा व्यवस्थेत्यविरोधः । तथा चतुर्विशतिमते-श्राद्ध आभ्युदये प्राप्ते देवतास्थापनं स्मृतम् । जातिधर्मकुलश्रेणि लोकानां वृद्धिकारकमिति । तत्र माध्यदिनशाखायामनुक्तत्वात्कि छन्दोगोक्तं कार्यमुतान्यस्मृत्युक्तमिति संदेहः । तत्रैक आहुः-परोक्तत्वात् यत्किचिदिच्छयेति । तथा च संग्रहकारः-सर्वेपामपि पक्षाणां स्वगृह्योक्तं विधीयते । स्वगृह्योक्तस्य चाभावे ग्रहणं स्वेच्छया भवेदिति । तद्युक्तम् । सूत्रपरिशिष्टयोरेककर्तृकत्वात्तस्यान्यशाखिविषयत्वात्पारस्करमतस्याश्रयणीयत्वाच । तथा च स्मृतिसंग्रहः- गृह्यादिस्मृतियेषां श्राद्धादावुपलभ्यते ।

Loading...

Page Navigation
1 ... 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560