Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 470
________________ पारस्करगृह्यसूत्रम्। [श्राद्धसूत्रपितुरयं पितामहस्यायं प्रपितामहस्येत्यादिनिर्धारणं कृत्वा मातामहद्विजानिमन्त्रयेत् । यावत्संख्याश्च पितृद्विजास्तावत्संख्या एव मातामहद्विजास्तथैव निमन्त्रणीयाः । ततः 'अक्रोधनैः शौचपरैः सततं ब्रह्मचारिभिः । भवितव्यं भवद्भिश्च मया च श्राद्धकारिणा' इति नियमाञ्छ्रावयेत् । तन्त्रेण वा वैश्वदेविकम् ॥ इति श्राद्धदिनात्याचीनदिनकृत्यम् । पूर्वदिने निमन्त्रणासंभवै श्राद्धदिने प्रातनिमन्त्रणम् । अथ श्राद्धदिनकृत्यम् । तत्र दन्तधावनवजै प्रातःकालिकं कर्म कृत्वा उद्वर्त्तनद्रव्यस्नानीयतिलामलककल्कांस्ताम्रपाने संभृतान्कृत्तश्मश्रुनखेभ्यो निमन्त्रितद्विजेभ्यो देवपूर्वकं प्रेष्यद्वारा दापयेत् । ततः पाकभूमेर्गोमयोपलेपादिसंस्कारकरणं महानसे च । सचैलनातः सपत्नीको यजमानः स्वयं पाकमारभेत । असंभवे तु शुचिभिः स्नातैः सवर्णैर्वा कारयेत् । ततः श्राद्धसंभारोपकल्पनम् । अथाह्नः पष्ठे मुहूर्ते नद्यादौ नित्यनानं ततः कर्माङ्गस्नानम् । ततः श्राद्धार्थमुदकमानीय पल्या सह शुचिः शुक्लवासाः श्राद्धदेशमागत्योदकं स्थापयेत् । अथापराहकृत्यम् । तत्रागतान्द्विजान्दृष्ट्वा भवतां स्वागतमिति प्रत्येक ब्रूयात् । सुस्वागतमिति द्विजैर्वक्तव्यम् । ततस्तेभ्य उदकदानम् । मण्डलकरणम आचमनार्थजलदानम् । तैश्याचमनकरणम् । ततो यजमानस्य पादप्रक्षालनपूर्वकं द्विराचमनम् । ब्राह्मणानामुपवेशनम् । अस्मिन्नवसरे दीपानां स्थापनम् । ततः कर्लोपविश्य "गड्डायै नमः । गदाधराय नमः" इति वदेत् । पुण्डरीकाक्षं स्मृत्वा " देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च । नमः स्वाहायै स्वधायै नित्यमेव नमोनमः ।। इति त्रिः पठेत् । ततः अद्येत्यादिकालज्ञानं कृत्वा, अमुकसगोत्राणामस्मपितृपितामहप्रपितामहानां सपत्नीकानां वसुरुद्रादित्यस्वरूपाणां तथा मातामहादीनां संकीर्तनं कृत्वा पार्वणद्वयविधिनाऽमुकनिमित्तं श्राद्धं करिष्य इति संकल्पं कुर्यात् । ततो " निहन्मि सर्वं यदमेध्यमत्र निहन्मि सर्वानपि दानवासुरान् । यक्षाश्च रक्षांसि पिशाचगुह्यका हता मया यातुधानाच सर्वे " इति पठेत् । नीवीवन्धनम् । ततस्तिला रक्षन्त्वसुरान्दर्भा रक्षन्तु राक्षसान् । पति वै श्रोत्रियो रक्षेदतिथिः सर्वरक्षकः । इति द्वारि तिलकुशनिक्षेपः । अग्निष्वात्ताः पितृगणाः प्राची रक्षन्तु मे दिशम् । तथा बर्हिषदः पान्तु याम्यां ये पितरस्तथा ॥ प्रतीचीमाज्यपास्तद्वदुदीचीमपि सोमपाः । ऊर्वतस्त्वर्यमा रक्षेत्कव्यवाडनलोऽप्यधः ॥ रक्षोभूतपिशाचेभ्यस्तथैवासुरदोपतः । सर्वतश्चाधिपस्तेपां यमो रक्षां करोतु मे ।। इति यथालिङ्गं दिशि दिशि तिलान्प्रकिरेत् । रक्षोभूतेति सर्वतः प्रकिरणम् । ततः कर्मार्थ जलाभिमन्त्रणं दभैरालोडयन् यद्देवा इति तृचेन । अत ऊर्ध्वं जलकार्यमनेन । दुष्टदृष्टिनिपातनादिदूषितः पाकः पूतो भवत्विति पाकप्रोक्षणम् । सव्यम् । पुरूरवावसञ्जकाना विश्वेपान्देवानामिदमासनम् । हस्तप्रक्षालनम् । अपसव्यम् । गोत्राणाम्पितृपितामहप्रपितामहानाममुकामुकशर्मणा मिदमासनम् । हस्तप्रक्षालनम् । एवं मातामहादीनाम् । सव्यं पुरूरवाईवसंज्ञकान्विश्वान्देवानावाहयिष्ये, इति प्रश्नः । आवायेति प्रत्युक्तिः । दक्षिणं जान्वालभ्य’ विश्वेदेवास इत्यावाहनम् । यवविकरणम् । विश्वेदेवाः शृणुतेममिति जपः । आगच्छन्त्वित्यपि जपेत् । अपसव्यम् । अमुकगोत्रान्पितनावाहयिष्ये, इति प्रश्नः । आवाहयेति प्रत्युक्तिः । उशन्तस्त्वेत्यावाहनम् । तिलविकरणम् । आयन्तु न इति जपः । एवं मातामहादीनामावाहनम् । ततः सव्यं कृत्वा वैश्वदेविकं पात्रं निधाय पवित्रान्तहिते शन्नोदेवीरिति जलमासिच्यापसव्यं कृत्वा पितृपात्राणि निधाय पवित्रान्तहितेषु शन्नोदेवीरिति जलासेकः । सव्यम् । यवोऽसि धान्यराजो वा वारुणो मधुसंयुतः । निर्णोदः सर्वपापाना पवित्रमृपिभिः स्मृतः । इति देवपात्रे यवप्रक्षेपः । यवोसि यवयेति मन्त्रेण वा यवप्रक्षेपः । तिलपक्षे तु तिलोसीति मन्त्रेण । तिलोसीति पितृपात्रेपु मन्त्रावृत्त्या निलप्रक्षेपः । सर्वपात्रे चन्दनपुष्पप्रक्षेपो देवपितृधर्मेण । सव्यम् वैश्वदेविकपवित्रदानम् । पूजनम् । यादिव्या इत्यदानम् । एवं सर्वत्र । प्रथमे पाने संखवान्समवनीय पितृभ्यः स्थानमसीति पात्रन्युन्जी

Loading...

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560