Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 528
________________ ५२२ पारस्करगृह्यसूत्रम् । [ श्रद्धसूत्र तामहाः । इति । मुद्रा वन्याः । चीनकस्तृणधान्येषु कडुभेदः । उशना अपि - तीवारमापमुद्राश्च गोधूमाः शालयस्तथा । यवाश्च चणकाश्चैव सर्वकडः प्रशस्यते । इति । ततश्च ग्राम्या आरण्या विहितप्रतिप । 1 1 । फलानि मूलानि पूर्वपूर्वाभावे उत्तरोत्तराणि क्रमेण श्राह्माणीत्यर्थः । अथवा समुच्चयार्थमोपधिग्रहणम् । तेनौपधिसहितान्येव फलादीनि तृप्तिकराणीत्यर्थः । तथा ह्युत्तरं सूत्रं सहान्नेनेति । मनुरपि-भक्ष्यं भोज्यं च विविधं मूलानि च फलानि च । हृद्यानि चैव मांसानि सर्व दद्यादमत्सरी | इति । मूलफलैरद्भिर्वेति वा पाठः । तथा च सूत्रान्तरम् -- मूलफलैरद्भिवेति । सर्वाभावेऽद्भिस्तृप्तिरित्यर्थः । तथा च -- पराधीनः प्रवासी च निर्धनो वापि मानवः । मनसा भावशुद्धेन श्राद्धं दद्यात्तिलोकम् | अनुकल्पोपलक्षणं चैतत् । तेनोपवासादिकमपि ज्ञेयम् । आपो निषिद्धातिरिक्ताः । तथा च भरद्वाजः -- नक्तोद्धृतं तु यत्तोयं पल्वलाम्वु तथैव च वर्जयेदिति शेषः । मार्कण्डेयोऽपि - दुर्गन्धि फेनिलं चाम्बु तथाल्पप्रदरोदकम् । यन्न सर्वार्थमुत्सृष्टं यच्चाभोज्यनियोजनम् । तद्वर्ण्य सलिलं तात सदैव पितृकर्मणि । इति । मूलग्रहणं दशविधशाकोपलक्षणम् । तथा च - मूलपत्रकरी रायफलकाण्डाधिरूढकम् । त्वक्पुष्पं कवकं चेति शाकं दशविधं स्मृतम् । इति । मूलं मूलकादि । पत्रं पालक्यनाडीवादि । करीरं वंशाङ्कुरादि । अग्र प्लक्षचेत्रादीनाम् । फलं कूष्माण्डादि । काण्डं सार्पपवास्तूका1. दि । अधिरूढकं तालास्थिमज्जादि । त्वमातुलुङ्गादि । पुष्पं तिन्तिडीककाञ्चनारादि । कवकं शि लीन्प्रादि । मार्कण्डेय: --- विदारीभिर्गुरुण्डैश्च विसैः शृङ्गाटकैस्तथा । केचुकैश्च तथा कन्दैः कर्कन्धूत्रदरैरपि । पालेवतैरा रुकैश्वाक्षोडैः पनसैस्तथा । काकोलैः क्षीरकाकोलैस्तथा पिण्डालकैः शुभैः । लाजाभिश्च शिलाभिश्च त्रपुसोर्वारुचिर्भटैः । सर्षपै राजशाकाभ्यामिदै राजतन्तुभिः । पियाला मल कैर्मुख्यैः फल्गुभिश्च तिलम्बकैः । वेत्राड् कुरैस्तालकन्दैश्चुक्काक्षीरिकावचैः । मोचैः समोचैर्लकुचैस्तथा वै चीजपुत्रकैः । मुञ्जातकैः पद्मफलैर्भक्ष्यभोज्यैस्तु संस्कृतैः । रागखाण्डवचोष्यैश्च त्रिजातकसमन्वितैः । दत्तेस्तु मासं प्रीयन्ते विधिवत्पितरो नृणाम् । इति । अस्यार्थः - विदारी कृष्णवर्णभूकूष्माण्डफलमिति । माधवीयेविदारीति प्रसिद्धा विदारी तस्याः कन्दमिति शेप इत्यन्यः । भुरुण्डो जलप्रभवः कन्दविशेष इति मञ्जरीकारः । केचुकः कचूराख्यशाकः । जलप्रभवः कन्दविशेष इत्यन्यः । विसं मृणालम् । शृङ्गा टकं जलजं त्रिकण्टकफलम् । सिधारा इति प्रसिद्धम् । कन्दः सूरणकन्दः । कर्कन्धूः स्वादु वदरीफलम् चदुरमन्यद्वदरफलम् | पालेवतं जम्बीराकारं फलं काश्मीरप्रसिद्धम् । आरुकं आरुकन्दः । आक्षोड: पार्वतीयपीलुफलम् । पनसैः कण्टकिफलैः कटहर इति प्रसिद्धैः । काकोलैर्मधुराफलैः । क्षीरका कोलस्तद्भेदः । पिण्डालुकैश्चतुर्भेदैः । तथा च मनुः - पिण्डालुकं कुगन्धं च मध्वालु स्यात्तु रोमगम् । शङ्खाशङ्खसंकाशं कष्टालु स्वल्पकामिति । लाजा भ्रष्टधानाः । तथा च शङ्खः -लाजान्मधुयुतान्दद्यात्सक्त छर्करया सह । इति । शिला शैलेयम् । त्रपु त्रपुसीफलम् । उर्वारु स्वादुकर्कटी | चिर्भटः कटुकर्कटी । सर्पपो गौरसर्षपशाकम् । राजशाकं शाकविशेषः । कृष्णसर्पपशाकविशेषमिति माधवीये । तन्न तस्य प्रतिषेधात् । इदस्तापसतरुः । राजतन्तुः प्रियालो राजादनम् । निघण्टुकेः । प्रियाला द्राक्षा वा । फल्गु काकोदुम्बरिकाफलम् । अतिलम्बकैः 'तालकन्दैस्तालमूलीकन्दैः । चुक्रिकाम्लिकाफलं तित्तिडीफलमित्यर्थः। नागरङ्गतित्तिङीति स्मृत्यन्तरवचनात् । क्षीरिका फलाध्यक्षम् । मोचा कदलीफलम् । लकुचैर्लिकुचफलैः । वीजपुत्रकैर्मुञ्जातकैः । पद्मफलैर्वेदर इति प्रसिद्धैः । भक्ष्यं कटुकमोदका दि भोज्यं भोजनमोदना दिसूपयुक्तम् । रागपाडवा: रसालादिपानविशेषाः । तथाच निघण्दुः-मार्जिता शिखरिण्युक्ता रसाला सुरभिस्तथा । औषधी पाडवाख्या च चतुर्जातकसंयुता । इति । चतुजीतकं वक्ष्यमाणम् । सुसंस्कृतैरिति मेलविशेपैः । तथा च सूपकारशास्त्रम् - अर्धाढकं सुचिरपर्युधितस्य दध्नः पण्डस्य पोडशपलानि अशिप्रभस्य । सर्पिः पलं मधु पलं मरिचं द्विक शुण्याः पला I F

Loading...

Page Navigation
1 ... 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560