Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 439
________________ कण्डका १ ] परिशिष्टम् । ४३३ 1 नवानां नवकं वृद्धौ तथैवान्त्रष्टके विदुः । कुर्याद्वादशदैवत्यं प्रेततीर्थे गयासु च । तथा - उपलवे चन्द्रमसो रवेश्च वृद्धौ गयायां गमनागमेपु । अन्वष्टकायां च महोत्सवेषु श्राद्धक्रिया द्वादशदैवता स्यात् । वृद्धयाज्ञवल्क्योऽपि-गयायां च कुरुक्षेत्रे राहुग्रस्ते दिवाकरे । कुर्याद्वादशदैवत्यं पार्वणानां चतुष्टयमिति । ननु च दिनानि दशपञ्च चेत्यत्र तिथिपोडशकं प्रति विरोधः । तथा च शाट्यायनिः - नभस्यस्या परे पक्षे तिथिषोडशकं तु यत् । कन्यागतान्वितं चेत् स्यात्स कालः पितृकर्मसु । ब्रह्माण्डेऽपि - कन्यां गते सवितरि यान्यहानि तु षोडश । क्रतुभिस्तानि तुल्यानि तेषु दत्तमयाक्षयम् । कन्यां गत एकदेशेऽपि । तथा चकार्ष्णाजिनि:- आदौ मध्येऽवसाने वा यत्र कन्यां व्रजेद्रविः । स पक्षः सकलः पूज्यः श्राद्धोडशकं प्रतीति । उच्यते - द्वादशकपालेष्वष्टकपालवत् षोडशदिनेषु पञ्चदशदिनानुवाद इत्यविरोधः । श्राद्धषोडशके तु संदेहः । तत्रैके शुक्लप्रतिपदा सह तिथिपोडशकमाहुः । तथा च देवल:अहः पोडशकं यत्तु शुक्लप्रतिपदा सह । चन्द्रक्षयाविशेषेण साऽपि दर्शात्मिका स्मृता । इति । तदयुक्तं - शुक्लप्रतिपदो दौहित्र कर्तृकमातामह श्राद्धविषयत्वात् । तथा च - मातॄणां नवमी यद्वद्धतानां च चतुर्दशी । तद्वन्मातामहानां च शुक्लेऽथ प्रतिपन्मतेति । अन्ये त्वाहु:--- तिथिवृद्धिविपथं श्राद्धपोडशकमिति । तदपि न । तथा सति त्रुटिवृद्धयोः पञ्चदशसप्तदशश्राद्धसंभवात् पोड - शकविधिवाधापत्तेः । तथा च पठन्ति — तिथयः पञ्चदश स्युः प्रेतपक्षे तु पोडश । अनुमत्यादिकं कुर्यात्पितॄणां दत्तमक्षयम् । नातः पञ्चदशे कुर्यान्नातः सप्तदशे तथा । ऊने तु नरके यान्ति हाधिके स्वाद्धनक्षयः । इति । तस्मात्रुटिवृद्धथोरभावे षोडशश्राद्धविधिरिति चेत् । एतदपि नोपपद्यते । तथा सति श्राद्धपोडशकस्य कादाचित्कत्वेन नित्यत्वानुपपत्तेः । अतः प्रौष्ठपदीमारभ्य त्रुटौ प्रतिपदमभिव्याप्य, वृद्धौ वहिःकृत्य श्राद्धषोडशकं कर्तव्यमिति व्यवस्थापनं युक्तम् । एवं तर्हि प्रतिपदो दौहित्रविषयत्वमित्युक्तिर्विरुध्येत । मैवम् | त्रुटिविपयत्वात्तया पोडशपूरणोपपत्तेः । अथवा — एका तिथि - द्वयसंभवे श्राद्धद्वयकरणात्षोडशपूरणम् । ततश्च उभयथाऽपि प्रौष्ठपद्यामारम्भ इति सिद्धम् । तथा च सूतः - पूर्णिमाप्रभृति श्राद्धं तस्मात्कुर्याद्विचक्षणः । दिने दिने यज्ञफलं लभते श्राद्धतो नरः । ब्रह्माण्डपुराणेऽपि श्राद्धं च पूर्णिमायां च कृत्वा पूर्णफलं लभेत् । प्रतिपद्यर्थलाभाय द्वितीयार्थाय चापरे । पुराणसमुच्चयेऽपि । प्रशस्ताः पूर्णिमामुख्यास्तिथयः षोडशैव ताः । यथा तिलानां तैलं च तुल्यं वै श्वेत्तकृष्णयोः । पूर्णमास्याममायां च समं पुण्यफलं द्वयोः । पूर्णपक्षे नभस्यैव पूर्णिमैषा पितृप्रिया ॥ अस्यां दन्तं पितॄणां वै तृप्तिः सांवत्सरी भवेत् । सर्वान्कामानवाप्नोति अमायां च यथा यथा । पौर्णमास्यां तथा कुर्वन् श्राद्धं पितृपरायणः । पूर्वापरायोरन्ते यः श्राद्धं कुरुते नरः । नभस्यस्य द्विजश्रेष्ठाः पितरस्तेन पुत्रिणः । पौर्वाहिकी पौर्णमासी हामा चैवापराद्दिकीति । वृद्धयाज्ञवल्क्योऽपि — काम्यकं तिथिकर्तव्यं श्राद्धकर्म द्विजातिभिः । पूर्णिमाश्राद्धदानेन संपूर्ण फलमश्नुते कुर्वन्वै प्रतिपच्छ्राद्धं धनमानन्त्यमश्नुते । इत्यादिषोडशकम् । वायुपुराणेऽपि - पुष्टिं प्रजां स्मृति मेधामित्याद्युपक्रम्य पौर्णमास्याद्यमावास्यान्ततिथिपोडशकमुक्तमित्यलम् । ननु च - श्राद्धं पिण्डप्रदानं कर्मेति कथमुक्तम् - स्मृतिष्यनेकधा श्राद्धशब्दप्रयोगात् । तथा हि-श्राद्धभुगष्ट वर्जयेत्, श्राद्धभुक् प्रातरुत्थाय, अपि स्यात्स कुले जन्तुर्भोजयेद्यस्तु योगिन इत्यादिना भोजने । श्रद्धा अस्ति यत्र तच्छ्राद्धं प्रज्ञाश्रद्धाचभ्यो णः श्रद्धया दीयते यस्माच्छ्राद्धं तेन निगद्यते, इति, पाणिनियमादिवचनाच्छ्रद्वायोगे । श्रीस्त्रीन्पिण्डानवनेज्य दद्यात् नंदायां भार्गवदिने त्रयोदश्यां त्रिजन्मनि । तेषु श्रद्धं न कुरुतेत्यादिवचनात्पिंडदाने । अथैतन्मनुः श्राद्धशब्दं कर्म प्रोत्राचेत्यादिना कर्मणि । एवं विप्रतिपत्तौ ह्येक आहु:-- पिंडदानस्य प्राधान्यात्तद्दाने शंतनोर्हस्तोत्थानाच गयादौ पिंडदान श्राद्धम् । ब्राह्मणपरीक्षाप्रयत्नाद पांक्तेयभोजने दोपश्रवणापिंडराहित्येऽपि श्राद्धसंभवाच ६५

Loading...

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560